________________
६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० ३. सू० १७-१८.]
इ-णोः क-टावन्तौ शिटि नवा ॥ १. ३. १७ ॥
पदान्ते वर्तमानयोर्डकार-णकारयोः शिटि परे यथासंख्यं 'कट' इत्येतावन्तौ वा भवतः । प्राक् शेते, प्राक् छेते, प्राङ् शेते; प्राक् षण्डे, प्राङ् षण्डे; प्राक् साये, प्राङ् साये; सुगण ट् शेते, सुगण टु छेते, सुगण शेते; वण्ट षण्डे, वण षण्डे; वण्ट साये, वण साये; क्रुक्षु, क्रुषु; 5 सुगण्ट्सु, सुगण्सु । ङ्-गोरिति किम् ? भवाञ् शेते, महान् षण्डे । शिटीति किम् ? प्राङ् करोषि, सुगण चरति । पदान्त इत्येव ? बभषि ।। १७ ।।
न्या० स०-इ-णोरित्यादि । नन्वत्रान्तग्रहणं किमर्थम् ? 'ङ-णो: क-टाटो' इत्येवोच्यताम्, नैवम्-एवं कृते ङ्णोः षष्ठ्यन्तत्वेन क-टयोरादेशत्वं स्यात्, तन्निरासायान्तग्रहणम् ; तहि "ङ-णः क-टम्" इति समाहारं कृत्वा 'ङ-णः' इति पञ्चम्यन्तमा-10 देशत्वनिरासाय व्याख्यायताम्, न-अन्तग्रहणाभावे कस्य प्रत्ययत्वे [सन्धि-नाम-कारकसमासरूप] चतुष्कवृत्तित्वादकाक्षं सति विभक्त लुपि नकारस्य निवृत्तिः स्याद् धुड्निमित्तत्वात् तस्य, तथा च 'प्राङक शेते' इति न स्यात् । 'प्राङ्क छेते' इत्यत्र पूर्वपदभक्तत्वेन पदान्तत्वात् "प्रथमादधुटि शश्छः" [१. ३. ४.] इति शकारस्य छत्वं भवति । अन्तग्रहणे सति "प्राङ क साये' इत्यत्र ककारस्य पदान्तत्वात् “नाम्यन्तस्था०" [२. ३. १५.]15 इत्यनेन पदमध्ये विधीयमानं षत्वं न भवति, अन्यथा परादित्वेन ककारेण सकारस्य पदादित्वविघातात् षत्वं स्यादिति । तथा "सुगण सु" इत्यत्र “नाम सिदय" [१.१.२१.] इति टकारस्य पूर्वपदभक्तत्वेन पदान्तत्वे "पदान्तावर्गात०" [१.३.६२.] इति प्रतिषेधात् “सस्य श-षौ" [१. २. ६१.] इति सकारस्य षत्वं न भवति, परावयवत्वे त्वपदान्तत्वात् प्रतिषेधाभावात् स्यादेवेति । अन्यच्च, क-टयोः प्रत्ययत्वान्नामत्वे 'यावक'20 इत्यादिवत् हेत्वर्थयोगे तृतीयादयो विभक्तयः स्युः । “वण शब्दे” इत्यतो विचि वण, क्विपि तु दीर्घत्वे वाण । तथा 'सुगण' इत्यत्राकार-णिगोर्लोपस्य "अहन्पञ्चमस्य०" [४. १. १०७.] इति स्थानित्वाभावात् कथं न दीर्घ इति चेत् ?; सत्यम्-तत्र हन्वर्जनस्योपदेशावस्थायां पञ्चमान्तग्रहरणार्थत्वेन व्याख्यास्यमानत्वात् । महान् षण्डे इति-अत्र "षि तवर्गस्य" [१. ३. ६४.] इति निषेधात् “तवर्गस्य०" [१. २. ६०.] इति णत्वं न25 ॥१७॥
इनः सः त्सोऽश्चः ॥ १. ३. १८ ॥
पदान्ते वर्तमानाद् डकाराद् नकाराच्च परस्य सकारस्य स्थाने, 'त्स' इत्ययं तकारादिः सकारादेशो वा भवति, अश्वः-श्च्संयोगावयवश्चेत् शकारो न भवति । षड् त्सीदन्ति, डकारनिर्देशाट्टत्वं न भवति, केचित् तु टत्वम-30