________________
[पा० ३. सू० १५-१६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ६३
सकारलुकोः स्वत्वासम्भवाद्, अनुनासिकस्य च संभवात्, तस्यैव परामर्शः, द्विवचनोपादानात् तत्प्रतिबद्धस्यानुस्वारस्य चेत्याह–ताविति ।। १४ ।।
म-न-य-व-लपरे हे ॥ १. ३. १५ ॥
म-न-य-व-लपरे हकारे परे पदान्ते वर्तमानस्य मकारस्य स्थानेऽनुस्वाराऽनुनासिकौ स्वौ पर्यायेण भवतः । किं मलयति, किम् ालयति; किं नुते, 5 किन् नुते; किं ह्यः, कियँ ह्यः; किं ह्वलयति, किवँ ह्वलयति; किं ह्लादते, किल ह्लादते । मादिपर इति किम् ? किं हसति । ह इति किम् ? किं ज्वलति ।। १५ ॥
न्या० स०--म-नेत्यादि-म-न-य-व-ला: परे यस्मादिति बहुव्रीहिर्न तु तत्पुरुषः परग्रहणात् । यद्येवं 'म-न-य-व-ले' इति कस्मान्नोक्तम् ? सप्तम्येव हि परशब्दार्थं प्रति-10 पादयिष्यति मकारादौ परे यो हकारस्तस्मिन्निति, नैवम् विपर्ययोऽपि विज्ञायेत हकारपरे मकारादाविति, ततश्च 'किं मह्यति, किं नह्यति, किं याहि किं वहसि, किं लिहते' इत्यत्रैव स्यात् । अकारादिना व्यवधानान्न भविष्यतीति चेत् ? न- येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् ” इति न्यायाद् एकेन वर्णेन व्यवधानमाश्रीयते; अथ प्रथमपक्षे कि ालयतीत्यादौ सूत्रं चरितार्थमिति किमिति व्यवधानमाश्रीयत इति चेत ? न-येन15 प्रतिपादकेन हकारपरे मकारादावित्येष सूत्रार्थः स्वीकृतस्तं प्रति पक्षान्तरस्यासम्भवात्; विपरीतप्रतीतिः स्यादिति तन्निरासाय परग्रहणं कर्तव्यमेवेत; तथापि न कर्तव्यम्, विपर्ययप्रतीतौ हि अस्य वैयर्थ्यं स्यात् “तौ मु-मौ०" [१. ३. १४.] इत्यनेनैव रूपद्वयस्य सिद्धत्वात्, सत्यम्-तहि नियमार्थमेतत् स्यात्, ततो मकारादौ हपरे एव स्यात् नान्यत्र; ततश्च 'स्वं मन्यसे' इत्यादौ पूर्वेणापि न स्यादिति परग्रहणम् । तथा हकारस्य स्वो20 नास्तीति व्यवहितमकाराद्यपेक्षया स्वोऽनुनासिको भवन् मकारादिरूप एव भवतीति । मस्य पदान्ते वर्तमानस्येति व्याप्त्यर्थम्, यावताऽपदान्तेऽपि म्वागमे पूर्वसूत्रोपात्तानुवृत्ते लकारस्य सानुनासिकत्वेऽङ गीक्रियमाणे 'ब्रह्मल्यते, जम्ह्मलं यते, जवँ हल्यँते' इत्याद्यपि भवति, यथा चञ्चलाँदि ।। १५ ।।
25
सम्राट् ॥ १. ३. १६ ॥
समो मकारस्य राजतौ किबन्ते परेऽनुस्वाराभावो निपात्यते । सम्राट भरतः, सम्राजौ, सम्राजः, साम्राज्यम् ।। १६ ।।
न्या० स०–सम्राडिति । रेफस्य स्वत्वाभावादनुनासिकप्राप्तिरेव नास्तीत्याहअनुस्वाराभाव इति । एकवचनस्यातन्त्रत्वाद् द्विवचनादपि भवति ॥ १६ ॥