________________
६२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० १३-१४.]
लुक्॥ १. ३. १३ ॥
समित्येतस्य स्सटि परे लुगन्तादेशो भवति, पृथग्योगादनुस्वाराऽनुनासिकौ च पूर्वस्येति निवृत्तम् । सस्कर्ता, सस्कर्तुम् । केचित् त्वत्राप्यनुनासिकमिच्छन्ति-सँस्कर्ता, सँस्कर्तुम् ।। १३ ॥
न्या० स०-लुगिति । ननु पृथग्योगः किमर्थम् ?, पूर्वसूत्र एव लुगुच्यताम्, न च 5 वाच्यम्-तथा सति लुक्पक्षेऽपि अनुस्वारानुनासिकौ स्याताम्, सकारप्रतिबध्यत्वात् तयोस्तन्नि वृत्तौ न प्रवृत्तिः, नैवम् अनुस्वारानुनासिकौ हि कार्यप्रतिबद्धावेव विज्ञायेते, लुचोऽपि कार्यतया तत्प्रतिबद्धतया लुक्पक्षेऽपि स्यातामित्याह-पृथग्योगादिति ।। १४ ।।
तो मु-मो व्यञ्जने स्वौ ॥ १. ३. १४ ॥
मोर्वागमस्य पदान्ते वर्तमानस्य च मकारस्य व्यञ्जने परे तस्यैव10 स्वौ तावनुस्वाराऽनुनासिकौ वौँ पर्यायेण भवतः, मग्रहणेनैव सिद्धे मुग्रहणमपदान्तार्थम्, स्वेत्यनुनासिकस्य विशेषणम्, नानुस्वारस्यासम्भवात् । चंक्रम्यते, चक्रम्यते; चंचूर्यते, चञ्चूर्यते; दंद्रम्यते, दन्द्रम्यते; बंभण्यते, बम्भण्यते; यंयम्यते, यय्यँम्यते; वंवम्यते, ववम्यते । म-वहंलिहो गौः, वहल्लिँहो गौः; त्वं करोषि, त्वङ्करोषि; त्वं चरसि, त्वञ्चरसि; त्वं टीकसे,15 त्वण्टीकसे; त्वं तरसि, त्वन्तरसि, नकारस्य लाक्षणिकत्वादत्र “नोऽप्रशान०" [१. ३. ८.] इत्यादिना सकारो न भवति; त्वं पचसि, त्वम्पचसि; संयतः, सय्यँतः; अहंयुः, अहय्युः; त्वं लोकः, त्वॅल्लोकः; संवत्सरः, सव्व॑त्सरः; कंवः कव्वः; किंतराम्, किन्तराम् । पदान्त इत्येव ? गम्यते, रम्यते । व्यञ्जन इति किम् ? किमत्र । स्वाविति किम् ? रंरम्यते, शंशम्यते, त्वं20 रमसे, त्वं शण्ढः, त्वं षण्ढः, त्वं साधुः, त्वं हससि ।। १४ ।।
न्या० स०-तौ मु-म इत्यादि । ननु तौग्रहणं किमर्थम् ? स्वाविति विशेषणस्य विशेष्यसापेक्षत्वात् समानाधिकरणी अधिकारानुविधौ अनुस्वारानुनासिकावेवानुवर्यतः, सत्यम्-तौग्रहणमवधारणार्थम्, अन्यथाऽनन्तरोक्ता लुगनुवर्तेत पूर्वस्य चेति, ततश्च मुमोलुंग् भवति पूर्वस्य चानुस्वारः, 'चंक्रम्यते' इत्यादौ निमित्तभूतवर्णापेक्षया पूर्वस्याकारादे:25 स्थानेऽनुनासिकश्चेति सूत्रार्थेऽनिष्टं रूपं 'च्ङ क्रम्यते' इत्याद्यापद्येत । तौग्रहणात् तु तावेवेति नियमितावनुस्वाराऽनुनासिकावनुवर्तते । तच्छब्दस्य पूर्ववस्तुपरामशित्वेऽपि