________________
[पा० ३. सू० ४-५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ५७
इति । अज्-सलाविति-अत्र संज्ञाशब्दत्वात् कत्वाभावः, यतोऽर्थप्रत्यायनाय शब्दप्रयोगः, 'अच' इति हि स्वरप्रत्यायनमिष्टम्, कत्वे तु कृते 'अक्' इत्युक्त समानप्रतीतिः स्यादिति, अत एव च “सिजद्यतन्याम्" [३. ४. ५३.] इत्यादौ विवक्षितार्थप्रतीत्यभावात् सिचश्चकारस्य कत्वं न कृतमिति, अन्यथौणादिकस्य सिक्प्रत्ययस्याद्यतन्यां सत्यां प्रतीति: स्यादिति ।। ३ ।। .
प्रथमादधुटि शश्छः ॥ १. ३. ४ ॥
पदान्ते वर्तमानात् प्रथमात् परस्य शकारस्य स्थानेऽधुटि परे छकारादेशो वा भवति । वाक्छूरः, वाक्शूरः; वाक्छ्लक्ष्णः, वाक्श्लक्ष्णः; तच् छ्वेतम्, तच् श्वेतम्, उच्छ्मश्रुः, उच्श्मश्रुः, तच् छ्मीलति, तच् श्मीलति; षट्छ्यामाः, षट्श्यामाः; त्रिष्टुप्छ तम्, त्रिष्टुप्श्रुतम् । प्रथमादिति किम् ? 10 प्राङ् शूरः, भवाञ् शोभनः । अधुटीति किम् ? वाक् श्च्योतति ।। ४ ।।
न्या० स०–प्रथमेत्यादि । 'वाक्छूरः' इत्यादिप्रयोगेषु सर्वेषु तृतीयस्य प्रथमे कृते तादृक्षात् प्रथमात् शकारस्यानेन छः प्रवर्तते, ततस्तृतीयाधिकारेणैव सिद्धयति, न च परत्वात् “अघोषे प्रथमोऽशिट:" [१. ३. ५०.] इति प्रागेव प्रथमो भविष्यति, ततस्तृतीयाभावात् कथं शस्य छादेशो भविष्यतीति वाच्यम्, यतस्तत्रान्वित्यधिकारात् न प्रागेव15 प्रथमत्वमिति, सत्यम्-तृतीयाद् विधीयमाने छे तृतीयस्य प्रथमत्वं पश्चाद् न प्राप्नोति विधानसामर्थ्यात् यथा “ड्नः सः त्सोऽश्चः" [१. ३. १८.] इत्यत्र सूत्रे डकारात् परे त्से कृते टत्वं न भवति षड्त्सीदन्तीत्यत्र । किञ्च, प्राङक छेते, सुगण टु छेते' इत्यादौ तृतीयाभावात् छत्वं न स्यादिति विध्यर्थमिति । शोभत इत्येवं शीलः शोभनः “इङितो व्यञ्जन०" [५. २. ४४.] इत्यनः । अधुटीति पर्युदासात् स्वरा-ऽन्तस्था-ऽनुनासिकपरस्य20 शस्य छो भवतीति, तेन 'वाश्' इत्यत्र छो न भवतीति । वाक्छूर इत्यादौ "ऊनार्थपूर्वाद्यैः" [१. ३. ६७.] इति समासः ॥ ४ ॥
रः करव-पफयोर्क -(पौ॥ १. ३. ५ ॥
पदान्ते वर्तमानस्य रेफस्य क-खे प-फे च परे यथासंख्यंक-) (पौजिह्वामूलीयोपध्मानीयावादेशौ वा भवतः । ककार-पकारा-ऽकारा उच्चार-25 णार्थाः । क करोति, क खनति, क) (पचति, क) (फलति, अन्त करोति, अन्त) (फलति; पक्षे "रः पदान्ते विसर्गस्तयोः" [१. ३. ५३.] ' इत्यनेन विसर्गः-कः करोति, कः खनति, कः पचति, कः फलति, अन्तः
करोति, अन्तः फलति । विसर्गापवादोऽयम्, एवमुत्तरावपि ॥ ५ ॥