________________
५६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ३. सू० २-३]
यस्येति । स्थान्यासन्न इति-यद्वर्गसत्कस्तृतीयस्तद्वर्गसत्क एवानुनासिक इत्यर्थः । । तन्नयनमिति-अत्र तृतीयस्य दस्यासत्त्वे तत्स्थानस्य नस्याप्यसत्त्वाद नलोपो न भवति । ककुम्मण्डलमिति-अत्र "तौ मु-म:०" [१. ३. ४०.] इत्यनेन नानुस्वारः, “अ वर्गात्" [१. २. ४०.] इत्यतोऽसदधिकारस्य प्रयोजनवशादिष्टत्वाद् लाक्षणिकत्वात्, * प्रसिद्ध बहिरङ गम् इत्यसिद्धत्वाद् वा, इति । केचित त्विति-विश्रान्तविद्याधरादयः । मात्र- 5 मवधारणे, हल् च तत् मात्रं च, हल् मात्राऽस्येति वा-हलमात्रमिति, हल मात्रमितिअत्र लकारस्य सानुनासिको लकार इति। ननु 'षण्ण नयाः' इत्यत्र परत्वात् तृतीयस्यानुनासिकं बाधित्वा “प्रदीर्घात्०" [१. ३. ३२.] इत्यनेन द्वित्वे कृते 'षड्ण नयाः' इति प्राप्नोतोत्याह–अनुनासिके कृते पश्चाद् द्वित्वस्य भावादिति-"प्रदीर्घात्" [१. ३. ३२.] इत्यनेन पूर्वं द्वित्वं न प्रवर्तते, तत्रान्वित्यधिकारात्, कृते त्वनुनासिके प्रवर्तत10 इत्यर्थः ॥१॥
प्रत्यये च ॥ १. ३. २॥
पदान्ते वर्तमानस्य तृतीयस्य स्थाने पञ्चमादौ प्रत्यये परेऽनुनासिको भवति । नित्यार्थं वचनम् । वाङ्मयम्, गुडलिण्मान्, षण्णाम् । पदान्त इत्येव ? यज्ञः, सद्म । चकार उत्तरत्र विकल्पानुवृत्त्यर्थः ॥ २॥ 15
न्या० स०-प्रत्यये चेति । वाङमयमिति-वाचां विकारोऽवयवो वा “एकस्वरात्" [६. २. ४८.] इति मयट, वाच आगतं "नृ-हेतुभ्य:०" [६. ३. १५६.] इति मयट वा । गुडलिण्मानिति-अत्र “माऽवर्ण०" [२. १. ६४.] इति वत्वे कर्तव्ये हस्य ढत्वमसिद्ध द्रष्टव्यमिति । चकार इति-अयमर्थः-अत्र चकारः पूर्वयोगस्यैवास्य योगस्य शेषतां प्रतिपादयन् आत्मनि 'वा' इत्यस्य सम्बन्धाभावं वाऽनुवृत्तेश्चोत्तरत्राव्यवधानं च20 सूचयतीति ॥२॥
ततो हश्चतुथः ॥ १. ३. ३ ॥
पदान्ते वर्तमानात् ततस्तृतीयात् परस्य हकारस्य स्थाने प्रत्यासत्त्या पूर्वसवर्गश्चतुर्थो वा भवति । वाग्घीनः, वाग्हीनः; अज्-झलौ, अज्हलौ; षड् ढलानि, षड् हलानि; तद्धितम्, तहितम्; ककुब्भासः,25 ककुब्हासः । तत इति किम् ? प्राङ् हसति, भवान् हरति ।। ३ ।।
न्या० स०–ततो ह इत्यादि। ननु हस्य कण्ठ्यत्वात् तदासन्नेन हस्य घेनैव भाव्यम्, न झ-ढ-ध-भैरित्यतः पूर्वचतुर्थ इति कर्तव्यमिति, नैवम्-चतुर्थ इति गुरुकरणात् पूर्वप्रत्यासत्तिलम्यते, अन्यथा 'ततो हो घः' इत्येव कुर्यात्, इत्याह-प्रत्यासत्या पूर्वसवर्ग