________________
[पा० ३. सू० १.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ५५
न्या० स०-अ-इ-उवर्णस्येत्यादि । वृक्ष इति-"कादिय॑ञ्जनम्' [ १. १. १०.] इति सूत्रे कस्यादिरिति तत्पुरुषसमासे विसर्गस्यापि व्यञ्जनत्वे "नाम सि०" [ १. १ २१. ] इति वृक्षाकारस्य पदत्वाद् 'अन्ते' इति व्यावृत्तेर्न द्वयङ्गविकलतेति ।। ४१ ।।
इति द्वितीय: पादः संपूर्णः ।।
प्रथ तृतीयः पादः
तृतीयस्य पञ्चमे ॥ १. ३. १ ॥
'वा' इति, ‘पदान्ते' इति, 'अनुनासिकः' इति चानुवर्तते, वर्गतृतीयस्य पदान्ते वर्तमानस्य वर्गपञ्चमे परे वाऽनुनासिको भवति, स्थान्यासन्नः । वाङ् ङवते, वाग् ङवते; वाजकारः, वागञकारः; वाङ् रणकारीयति, वाग् णकारीयति ; वाङ् नयति, वाग् नयति; वाङ्मधुरा, वाग्मधुरा; एवम्--षण 10 नयाः, षड् नयाः; तन्नयनम्, तद्नयनम् ; ककुम्मण्डलम्, ककुमण्डलम् । तृतीयस्येति किम् ? स्वर्नयति, हल्मात्रम् । पदान्त इत्येव ? विद्मः । पञ्चम इति किम् ? वागत्र, षड् गच्छन्ति । केचित् तु व्यञ्जनस्य स्थानेऽनुनासिके परे वाऽनुनासिकमिच्छन्ति, तस्य तु "ह्रस्वान्ङ-ण-नो द्व" [१. ३. २७.] इति द्वित्वं च नेच्छन्ति, तन्मते-त्वहूं इति, त्वयूँ इति; श्वलिण इति,15 श्वलिडूं इति; तनूं इति, तदूं इति; हल्मात्रम्, हल्माँत्रम् । ननु ‘षड् नयाः' इत्यादौ "प्रदीर्घाद् विरामैकव्यञ्जने" [१. ३. ३१.] इत्यनेन तृतीयस्य द्वित्वे कृतेऽन्त्यस्यानुनासिके च तृतीयस्यापि श्रुति प्राप्नोति, नैवम्-अनुनासिके कृते पश्चाद् द्वित्वस्य भावात्, तेन 'षण्ण नयाः, षड्ड् नयाः' इत्यादि सिद्धम् ।। १ ।।
न्या स०–त तीयेत्यादि तृतीयस्येत्युत्तरार्थम्, अन्यथा वर्गस्येति क्रियेत, तेन प्राङ हसतीति सिद्धम्, 'वा' इतोति-"सौ नवेतौ" [१. २. ३८.] इत्यतो नवेति, "एदोतः" [१. २. २७.] इत्यतः ‘पदान्ते' इति, "अ-इ-उवर्ण०" [१. २. ४१.] इत्यतोऽनुनासिक इत्यधिकारत्रयं पादान्तरगतमप्यनुवर्तते अपेक्षातोऽधिकारः इति न्यायात् । प्रथम-द्वितीय-तृतीयादित्वं वर्गस्यैव धर्म इति वर्गस्यैव तृतीयः पञ्चमश्चेत्याह-वर्गत ती-25
20