________________
५४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ४१.]
10
इति विनाऽपि प्रथममेव द्वित्वे ऋङ ङ वास्ते इति सेत्स्यति, तत् किमनेनात्र दशितेन ? सत्यम्-पत्र परत्वा: "हस्वान्ड-गण-नो द्व' [१.३.२७. ] इत्यनेन जायमानं द्वित्वं बाधित्वा नित्यत्वादनेन वकारः, तस्य चासत्त्वाद् द्वित्वम् । कि विति; किवं त्रितीति-पत्र "इवर्णादेः०” [ १. २. २१.] इति वत्वे कृते "तो मु-मो व्यञ्जने." [ १. ३. १४. ] इत्यनुस्वारानुनासिकौ । तद् व्वस्य मतमिति-यत्र "ततोऽस्या:" [ १. ३. ३४. ] इत्यस्य 5 प्राप्तिस्तत्र "प्रदीर्घात्" [१. ३. ३२.] इति प्राप्तमपि द्वित्वं न प्रवर्तते नित्यत्वादिकारणेभ्यः । असत्त्वाद् द्वित्वमिति-"प्रदोर्घात्०" [१. ३. ३२.] इति, "ततोऽस्याः" [ १. ३. ३४. ] इति च द्वित्वादौ कर्तव्ये सन्नव, यतोऽसन्नित्यत्रापि वा योजनीयः, वकारादेशोऽपि वाऽसन् भवतीत्यर्थः, ततः पक्षेऽसत्त्व विधानान् कार्यविशेष प्रति सत्त्वमेव, तेन तद्वस्य मुखम् [मतम्], जान्व्वस्य रुजति इत्याद्यपि सिद्धम् ।। ४० ।।
अ-इ-उवर्णस्यान्तेऽनुनासिकोडनीदादेः ॥ १. २. ४१ ॥
अवर्णस्येवर्णस्योवर्णस्य चान्ते-विरामे वर्तमानस्यानुनासिक आदेशो वा भवति, अनीदादेः--न चेदयम् "ईदूदेद् द्विवचनम्" [१. २. ३४.] इत्यादिसूत्रसम्बन्धी भवति । पदान्ताधिकारेऽन्तग्रहणं विरामप्रतिपत्त्यर्थम्, स च विरामो भवन् पदस्यान्ते भवति, केवलमुपसर्गस्य समासान्तर्वतिनश्च न15 भवति । साम, साम; खट्वाँ खट्वा; दधिं, दधि; कुमारी, कुमारी; मधु, मधु; वृक्षण, वृक्षण; नाम अत्र, नाम अत्र; दधिं अत्र, दधि अत्र; मधु अत्र, मधु अत्र; वृक्षण अत्र, वृक्षण अत्र; विरामत्वाच्च सन्धिर्न भवति । अ-इ-उवर्णस्येति किम् ? कर्तृ, हर्तृ । अन्त इति किम् ? दधि करोति, मधु करोति, वृक्षः । अनीदादेरिति किम् ? अग्नी, वायू, अम्, अमी, किमु । चादिसूत्रे20 चादेः स्वरस्य केवलस्याजितस्य च ग्रहणादिह भवत्येव--अँ ! इति विष्णोः सम्बोधनम्, प्लक्षच, न्यग्रोध च, पाटलिपुत्रादा ।। ४१ ।।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्तौ प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ।। २ ।।
पूर्वभवदारगोपीहरणस्मरणादिव ज्वलितमन्युः । श्रीमूलराजपुरुषोत्तमोऽवधीद् दुर्मदाभीरान् ॥२॥
ग्रन्थाग्रम्-२१७ ॥
25