________________
[पा० २. सू० ३९-४०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ५३
ॐ चोञ् ॥ १. २. ३६ ॥
उशब्दश्चादिरितिशब्दे परे वाऽसन्धिर्भवति, असन्धिपक्षे च उञ् 'ॐ' इत्येवंरूपो दीर्घोऽनुनासिको वा भवति, तथा च सति त्रैरूप्यं सिद्धं भवति--उ इति, ऊँ इति, विति । इतावित्येव ? उ उत्तिष्ठ । जित्करणं स्वरूपपरिग्रहार्थम्, तेन विकृतस्य न भवति---अह+उ-अहो, अहो इति; एवम्-उताहो इति । 5 अथ ऊँ इत्येव चादिषु पठ्यताम्, किमादेशेन ? नैवम्--तस्यानितावपि प्रयोगः प्रसज्येत तन्निषेधार्थमादेशवचनम् ।। ३६ ॥
न्या० स०-ॐ चोमिति । तेन विकृतस्येति-विकृतस्यात्रितो विकृतौ सत्याम्, स्वरूपहानेरित्यर्थः, अयमभिप्रायः-द्वाविमावुकारौ-एको निरनुबन्धोऽपरः सानुबन्ध इति, तत्र यो निरनुबन्धस्तस्य 'अहो' इत्यत्रौकारादेश इष्यते नापरस्य, अतोऽहो इत्यत्रात्रित एव 10 कृतादेशत्वादिदं सूत्रं न प्रवर्तत इत्यर्थः, अत एव 'जान्वस्य रुजति' इत्यत्रोत्तरसूत्रेण वत्त्वं सिद्धम्, उत्रा सह जानोरुकारस्य दीर्धीभूतत्वात्, अथवा अत्र सूत्रे उकारप्रश्लेषाद् 'उ उ ऊत्र' इत्युकारेण उत्रो विशेषणाद् उकाररूपस्य उत्रो ग्रहणाः 'अहो' इत्यादी न भवति, उत्तरत्र तु जात्याश्रयणाद् दीर्धीभूतस्यापि 'जान्वस्य रुजति' इत्यादौ वत्वं भवति ।। ३६ ।।
15
अञ्वर्गात् स्वरे वोऽसन् ॥ १. २. ४० ॥
अकारवजितेभ्यो वर्गभ्यः पर उञ् स्वरे परे वकारो वा भवति, स चासन्--अभूतवत् । क्रुङवास्तेक्रुङ् प्रास्ते; किम्वावपनम्, किमु आवपनम्, किम्वुष्णम्, किमु उष्णम् ; किम्विति, किमु इति, कि{ इति, किं विति, किवं विति; जानु उ जानू, जान्वस्य रुजति, जानू अस्य रुजति; तद् वस्य20 मतम्, तदु अस्य मतम् । वर्गादिति किम् ? स्वरु उपैति, अन्तरु उपैति । अजिति किम् ? घजु एति । स्वर इति किम् ? किमु गच्छति । असत्त्वाद् द्वित्वमनुस्वारानुनासिकाभावश्च ।। ४० ।।
न्या० स०- अञ्वर्गेत्यादि नत्र तत्पुरुषगर्भकर्मधारयात् पञ्चमी। अत्र 'असन्' इत्युक्ते यदि वकाररूपादेशस्य स्वरूपेणाभावो विधीयते तदाऽऽदेश विधानमनर्थक स्यात्,25 अथ उन रूपस्य स्थानिनो निवृत्त्यर्थं तदिति चेत् ? सत्यम्-एवं सति उत्र एव निवृत्ति कुर्यात्, तस्माद् 'असन्' इति मुख्यार्थबाधायां गुणकल्पनाऽऽश्रीयत इत्याह-प्रसन्-प्रभूतवदिति-प्रसिद्धवत्, अकृतवदित्यर्थः, ततश्च स्थाम्याश्रय कार्य सिद्ध भवति, ननु 'असन्'