SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ३७-३८.] सम्प्रति मन्यसे' इति वाक्यसूचनायाऽऽकारः प्रयुज्यते। तथा स्मृतेः सूचक आकारः प्रयुज्यते, ततः स्मृत्यर्थो निर्दिश्यते-प्रा एवं नु तदिति ।। ३६ ।। ओदन्तः ॥१. २. ३७ ॥ ओकारान्तश्चादिः स्वरे परेऽसन्धिर्भवति । अहो अत्र, उताहो इदम्, अहो एतत्, अथो अस्मै, हंहो आगच्छ, अडो एहि, नो इन्द्रियम् । चादि- 5 रित्येव ? गवीश्वरः, अगौगौंः समपद्यत-गोऽभवत् ; मिथोऽत्र, मिथोशब्दः स्वरादिर्न तु चादिः, 'तिरोऽभवत् ; नमोऽकरोत्; अदोऽभवद्' इत्यादिषु लाक्षणिकत्वाच्च न भवति । 'अहो' इत्यादयोऽखण्डाश्चादय इति पृथग् योगः ।। ३७ ।। न्या० स०-प्रोदन्त इति । 'समपद्यत' इति वृत्तावर्थकथनम्, न तु च्वेरारम्भक-10 मिदं वाक्यम्, “कृभ्वस्ति" [ ७. २. १ ६. ] योगे एव च्वेविधानात् । गोऽभवदिति-पत्र "अधरण तसु०" [१. १. ३२.] इति, “गतिः" [ १. १. ६. ] इति वाऽव्ययत्वे सेलु पि "एदोतः पदान्तेऽस्य." [ १. २. २७. ] इति अलोपः । इत्याद्यपीति-'तिरस् नमस् अदस्' इत्याद्यपि स्वरादिर्न तु चादिरित्यर्थः । अहो इत्यादय इति-अह+उ-अहो इति, उत+ अह+उ-उताहो इति, आह + उ-पाहो इत्यादावर्थाभेदात् चादिसमुदायस्यापि चादित्वात् 15 पूर्वेणैव सिद्धत्वादनर्थकमिदमिति परस्याशयः, नवम्-एकनिपातत्वाच्चादिषु तथैव पाठात पूर्वेण न प्राप्नोतीति पृथग्योगारम्भ इत्याह-अहो इत्यादय इति ।। ३७।। सौ नवेतौ ॥ १. २. ३८ ॥ सिनिमित्तो य प्रोदन्तः स इतौ परेऽसन्धिर्वा भवति । पटो! इति, पटविति; साधो ! इति, साधविति । साविति किम् ? अहो इति । गवित्य-20 यमाह, गौरिति वक्तव्येऽशक्त्या 'गो' इत्युक्तमनुक्रियते, स्याद्वादाश्रयणाच्चानुकार्याऽनुकरणयोरभेदविवक्षायामसत्यर्थवत्त्वे विभक्तिर्न भवति । इताविति किम् ? पटोऽत्र ॥ ३८ ।। ____ न्या० स०-सौ नवेत्यादि-आमन्न्यार्थविहितः सिरत्र ग्राह्यः, अन्येन स्वरस्य व्यवधानाद् प्रोकारस्यासम्भवाच्च प्राप्तेरभावात् प्रतिषेधोऽनर्थकः । 'वा' इत्युक्तऽपि विकल्पे 25 सिद्ध 'नवा' इत्यधिकारार्थं कृतम्, तेन सर्वत्र यत्र नवेति तत्राधिकारः, यत्र तु वेति तत्र नाधिकार इति ।।३८ ।।
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy