________________
[पा० २. सू० ३६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ५१
चादिः स्वरोऽनाङ्॥ १. २. ३६ ॥
आजितश्चादिरव्ययसंज्ञकः स्वरे परेऽसन्धिर्भवति । अ अपेहि, प्रा एवं किल मन्यसे, आ एवं नु तत्, इ इन्द्रपश्य, ई ईदृशः संसारः, उ उत्तिष्ठ, ऊ ऊषरे बीजं वपसि, ए इतो भव, प्रो अोश्रावय । चादिरिति किम् ? अ! [विष्णो ! ] आगच्छ-आगच्छ । कथं तितउ:-परिवपनम् ? "तनेर्डउः" 5 [उणा० ७४८.] इति डउविधानबलादसन्धिर्भविष्यति । उत्तरत्रान्तग्रहणादिह केवलो गृह्यते, तेनेह न भवति-चेति, इतीह, नन्विति, वेति । स्वर इत्येव ? जानु उ-जानू । स्वरे परे इति प्रत्यासत्तेस्तन्निमित्तकसन्धिप्रतिषेधादिह दीर्घत्वलक्षणः सन्धिर्भवत्येव-जानु उ अस्य रुजति-जानू अस्य रुजति । केचित् तु चाद्यचादिस्थानस्याचादिरूपत्वात् स्वरनिमित्तकमपि सन्धिमिच्छन्ति-10 जानु उ अस्य रुजति-जान्वस्य रुजति । अनाङिति किम् ? आ ईषद् उष्णम्-प्रोष्णम्, आ इहि-एहि, आ उदकान्ताद्-प्रोदकान्तात् प्रियप्रोथमनुव्रजेत्, आ आर्येभ्यः-आर्येभ्यो यशो गतं गौतमस्य,
"ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं डितं विद्याद् वाक्य-स्मरणयोरङित्" ।। ३६ ।। 15
न्या० स०–चादिरित्यादि । 'अनाङ' इत्यत्र पर्यु दासाश्रयणेन सदृशग्रहणात्, चादिना स्वरस्य विशेषणात् तदन्तत्वासम्भवात् सामानाधिकरण्यलाभात् केवलस्य ग्रहणमित्याह-प्रावजितश्चादिरव्ययसंज्ञकः स्वर इति-वृत्तौ तु द्वितीयमुत्तरम् । प्रा एवं किल मन्यसे इति-अत्राकारो वाक्यालङ्कारे, पूर्ववाक्यार्थविपर्ययद्योतको वा। ऊष्यते पीड्यते बीजादि वस्त्वनेनेति "व्यञ्जनाद् ०" [५. ३. १३२.] घत्रि ऊषः, सोऽस्मिन्नस्ति "मध्वा-20 दिभ्यो रः" [ ७. २. २६. ] इति रे ऊषरः। शृणोतेरिणगि अलि श्रावः, प्रोः श्राव:अोश्रावः, तं करोति णिचि पूर्ववद् हौ 'पोश्रावय' इति क्रियापदमखण्डम् । प्रा उदकान्तादिति-अत्राङ मर्यादायाम्, तेन प्रियप्रोथानुव्रजनस्योदकमर्यादाभाव प्राङा द्योत्यते । प्रा प्रार्यभ्य इति-अत्राङ अभिविधौ, तेन यशोगति प्रति आर्याणाम भविधित्वं द्योत्यते । मर्यादाऽभिविधौचेति-अवधिमताऽसम्बद्धोऽवधिः, अभिविधिः-अभिव्याप्ति:, अवधिमपि यो25 व्याप्नोतीत्यर्थः, अवधिमताऽसम्द्धो योऽवधि: स मर्यादा, त परित्यज्य यो वर्तत इत्यर्थः । वाक्यस्मरणयोरिति-वाक्यशब्देन वाक्यार्थ उच्यते, चादीनां द्योतकत्वाद अर्थस्यैव द्योत्यत्वात्, न तु शब्दस्येति । प्रा एवं किल मन्यसे पूर्वप्रक्रान्तवाक्यार्थस्यान्यथात्वद्योतनायायमत्राकारः, अन्ये तु वाक्यशब्देन वाक्यमेवाहुः, तत आ एवं किल मन्यसे, 'नैवं पूर्वममस्थाः,