________________
[पा० २. सू० ३५. ]
मुनी इह, साधू एतौ अमू इति कुण्डे अत्र, माले इति पचेते इति पचेथे इति, पचावहे आवाम् । ईदूदेदिति किम् ? वृक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र । एषां प्लुतानामितावपि सन्धिर्न भवति - प्रग्नी३ इति, वायू३ इति । स्वर इत्येव ? तव ई - कामौ तवे । प्रत्यासत्तेः स्वरनिमित्तककार्यप्रतिधादिह भवत्येव - तव ई तवे साते । केचित् तु " मणीवोष्ट्रस्य लम्बेते 5 प्रियौ वत्सतरी मम" [ महाभारते ] इति प्रयोगदर्शनाद् 'मरणी इव - मणीव' इत्यादावसन्धिप्रतिषेधं वर्णयन्ति तदयुक्तम् -- वाशब्देनोपमानार्थेन सिद्धत्वात्, "मणी इवोद्भिन्नमनोहरत्विषौ" इत्यादावसन्धिदर्शनाच्च । अन्ये तु यथादर्शनं सन्धिमसन्धि चेच्छन्ति --- मरणीव, दम्पतीव, रोदसीव, मरणी इव ।। ३४ ।।
५० ]
बृहद्वृत्ति-लघुन्याससंवलिते
न्या० स० - ईदूदेदित्यादि- 'अग्नी३ इति' इत्यादी "दूरादामन्त्यस्य०" [७.४.६६.]10 इति प्लुतः । त इति यथा स्वरे परे सन्धिकार्यनिषेधस्तथा पूर्वस्थितेऽपि किं नेति ? सत्यम् सप्तम्या निर्दिष्टे पूर्वस्य इति न्यायात् स्वरापेक्षया पूर्वदेशव्यवस्थितस्यैव ईदादेः सन्धिनिषध:, न तु पूर्वस्थिते स्वरे । यद्यप्येवं यत्र परत्र स्वरो भवति - ' तवे साते' इति, तत्र पूर्वेणापि सह सन्धिप्रतिषेधः प्राप्नोतीत्यत श्राह - प्रत्यासत्तेरित्यादि । अयमर्थ:यस्मिन् सति यद् भवति तत् तस्य निमित्तमिति परस्वराश्रितत्वात् प्रथमं यत्वस्य तदनु 15 यादेशस्य च निषेधः, ते एव च परस्य स्वरस्य प्रत्यासन्न े, एत्वं तु परं स्वरमन्तरेणापि भवतीति न तत् स्वनिमित्तम्, न तत् प्रत्यासन्न चेति प्रत्यासत्तिन्यायात तन्निमित्तकस्यैव कार्यस्य निषध:, नातन्निमित्तकस्येति । वाशब्देनेत्यादि भाष्यकार वार्तिककारयोरसम्मतवाच्चेति । 'दम्पती' इत्यत्र राजदन्तादित्वाद जायाया दम्भावः । द्यौश्व पृथिवी च पृषोदरादित्वाद 'रोदसि' इदन्त प्रदेशः, ततो द्विवचनम् ।। ३४ ।।
20
अदोमु-मी ॥ १.२.३५ ।।
अदस्शब्दसम्बन्धिनौ ‘मुमी' इत्येतावसन्धी भवतः स्वरे परे । मुमुईचा, मी प्रासाते, मी अश्वा: । अदसिति किम् ? अम्यत्र ।। ३५ ।।
न्या० स० - श्रद इत्यादि - प्रदसो मु-मी इति विग्रहः । ननु प्रमुष्य मु-मी इति विग्रहः प्राप्नोति, कथमदस इति ? सत्यम् अविवक्षि गर्थस्य प्रायोगिक स्यादस्शब्दस्यात्र25 प्रयोगः, तत्र तु सार्थको गृह्यत इति प्रदस शब्दसम्बन्धि कार्याभावेऽदस इति भवति । हस्वत्वाभावे तु स्वैरादिवत् सर्वं द्रष्टव्यम्, सौत्रत्वाद् वा समाहारेऽपि न ह्रस्वः । प्रयत्रेति - "श्रमं गतौ” इत्यतो भावे घञि प्रमः सोऽस्यास्तीति इन् । ३५ ।।