________________
[पा० २. सू० ३१-३४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ४६
वाऽत्यसन्धिः ॥ १. २. ३१ ॥
गोरोकारस्य पदान्ते वर्तमानस्य, अति-अकारे स्वरे परे, असन्धिःप्रकृतिभावो वा भवति । गोअग्रम्, गोअजिनम् ; पक्षे यथाप्राप्तम्-गोऽग्रम्, गवाग्रम्, गोजिनम्, गवाजिनम् । अतीति किम् ? गवेङ्गितम्, गवाननम् । गोरित्येव ? द्योऽग्रम् । अोत इत्येव ? चित्रग्वग्रम् । हे चित्रगोऽग्रमित्यत्र तु 5 लाक्षणिकत्वान्न भवति । पदान्त इत्येव ? गौरिवाचरति-गवति ।। ३१ ।।
प्लुतोऽनितौ ॥ १. २. ३२ ॥
इतिशब्दवजिते स्वरे परे प्लुतोऽसन्धिर्भवति, सन्धिकार्यभाग् न भवतीत्यर्थः । देवदत्त३ अत्र न्वसि ?, जिनदत्त३ इदमानय, सुश्लोक ३ आगच्छ, सुमङ्गल३ इदमानय । अनिताविति किम् ? सुश्लोकेति, सुमङ्गलेति । केचित्10 तु इतिशब्दे विकल्पमिच्छन्ति-सुश्लोक ३ इति, सुश्लोकेति; सुमङ्गल३ इति, सुमङ्गलेति ॥ ३२ ॥
न्या० स०-प्लुत इत्यादि । 'अति' इति नानुवर्तते इतिशब्दवर्जनवैयर्थ्यादित्याहइतिशब्देत्यादि । असन्धिरिति-न विद्यते सन्धिर्यस्येति बहुव्रीहिणा व्याख्येयम्, एवमुत्तरत्र । देवदत्त३ प्रत्र न्वसीति-देवदत्तशब्दादामन्त्र्यविहितस्य सेः “अदेतः स्यमोर्नुक" [१.४.४४.]15 इति लुकि "दूरादामन्त्र्यस्य." [ ७. ४. ६६. ] इति प्लुतः, 'पागच्छ भो देवदत्त !' इति कस्यचिद् वाक्यस्यान्ते इदमामन्त्र्यपदं द्रष्टव्यम्, वाक्यान्ते प्लुतस्य विधानादिति ।। ३२ ।।
इ३ वा ॥ १. २. ३३ ॥
इ३ इति प्लुतः स्वरे परे वाऽसन्धिर्भवति, इतावप्राप्तेऽन्यत्र च प्राप्ते उभयत्र विकल्पोऽयम् । लुनीहि३ इति, लुनीहीति, चिनुहि३ इदम्, चिनुहीदम् । 20 कथं वशा३ इयम्, वशेयम् ? छान्दसावेतौ ।। ३३ ।।
न्या० स०-इ३ वेति । 'वशा३ इयम्' इत्यत्र प्लुतोऽपि छान्दसत्वाद् भवति
ईदूदेद् द्विवचनम् ॥ १. २. ३४ ॥ 'ईत् ऊत् एत्' इत्येवमन्तं द्विवचनं स्वरे परेऽसन्धिर्भवति । त्रपुणी अत्र,25