________________
[ पा० २. सू० ३१-३४.] श्री सिद्ध हेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ४९
वाsत्यसन्धिः ॥ १. २. ३१ ॥
गोरोकारस्य पदान्ते वर्तमानस्य, अति-प्रकारे स्वरे परे, असन्धिःप्रकृतिभावो वा भवति । गोग्रम्, गोप्रजिनम् ; पक्षे यथाप्राप्तम् - गोऽग्रम्, गवाग्रम्, गोऽजिनम्, गवाजिनम् । प्रतीति किम् ? गवेङ्गितम्, गवाननम् । गोरित्येव ? द्योऽग्रम् । प्रत इत्येव ? चित्रग्वग्रम् | हे चित्रगोऽग्रमित्यत्र तु 5 लाक्षणिकत्वान्न भवति । पदान्त इत्येव ? गौरिवाचरति - गवति ।। ३१ ।।
प्लुतोऽनितौ ॥ १. २. ३२ ।।
इतिशब्दवजिते स्वरे परे प्लुतोऽसन्धिर्भवति, सन्धिकार्यभाग् न भवतीत्यर्थः । देवदत्त३ अत्र न्वसि ?, जिनदत्त ३ इदमानय, सुश्लोक ३ श्रागच्छ, सुमङ्गल३ इदमानय । अनिताविति किम् ? सुश्लोकेति सुमङ्गलेति । केचित् 10 तु इतिशब्दे विकल्पमिच्छन्ति - सुश्लोक ३ इति, सुश्लोकेति; सुमङ्गल३ इति, सुमङ्गलेति ।। ३२ ।।
न्या० स० - प्लुत इत्यादि । 'अति' इति नानुवर्तते इतिशब्दवर्जनवैयर्थ्यादित्याहइतिशब्देत्यादि । श्रसन्धिरिति न विद्यते सन्धिर्यस्येति बहुव्रीहिणा व्याख्येयम्, एवमुत्तरत्र । देवदत्त३ प्रत्र न्वसीति-देवदत्तशब्दादामन्त्यविहितस्य से: “प्रदेतः स्यमोर्लु क्” [१.४.४४.]15 इति लुकि " दूरादामन्त्यस्य० " [ ७. ४. ε६. ] इति प्लुतः, 'श्रागच्छ भो देवदत्त !' इति कस्यचिद वाक्यस्यान्ते इदमामन्त्र्यपदं द्रष्टव्यम्, वाक्यान्ते प्लुतस्य विधानादिति ।। ३२ ।।
इ३ वा ॥ १.२. ३३ ।।
इ३ इति प्लुतः स्वरे परे वाऽसन्धिर्भवति, इतावप्राप्तेऽन्यत्र च प्राप्ते उभयत्र विकल्पोऽयम् । लुनीहि३ इति, लुनीहीति, चिनुहि३ इदम्, चिनुहीदम् 120 कथं वशा३ इयम्, वशेयम् ? छान्दसावेतौ ।। ३३ ।।
न्या० स० - ६३ वेति । 'वशा३ इयम्' इत्यत्र प्लुतोऽपि छान्दसत्वाद् भवति
।। ३३ ।।
ईदूदेद् विवचनम् ॥ १. २. ३४ ॥
'ईत् ऊत् एत्' इत्येवमन्तं द्विवचनं स्वरे परेऽसन्धिर्भवति । त्रपुणी प्रत्र, 25