________________
[पा० २. सू० २६-२८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ४७
नार्थात् शरुशब्दादुवर्णान्तलक्षणे ये, शरान् व्ययतीति वा डे भविष्यतीति । ।। २५ ।।
न्या० स०–ग्यक्य इति । गव्यमिति-गोशब्दस्य युगादौ पाठो हितादावर्थे तदन्तार्थः, तेन 'सुगव्यम्, अतिगव्यम्' इत्यादावपि "उवर्णयुगादेर्यः" [७. १. ३०.] इति यः सिद्धः । शरशब्दाद् यप्रत्यये अोकाराभावादवादेशाभावे कथं शरव्यमित्याशङ्कयाऽऽह- 5 शरव्यमितीति ।। २५ ॥
तो रस्तद्धिते ॥ १. २. २६ ॥
ऋत ऋकारस्य यकारादौ तद्धिते परे रादेशो भवति । पितरि साधु पित्र्यम्, भ्रात्र्यम् । तद्धित इति किम् ? कार्यम् ।। २६ ।।
न्या० स-ऋत इत्यादि । ननु 'कार्यम्' इत्यत्र परत्वाद् 'घ्यण' इत्यत्र णोपदेशाद 10 वा वृद्धिरेव भविष्यति, किं तद्धितग्रहणेन ? सत्यम्-अत्र तद्धितग्रहणं विना 'जागृयात्, इययात्' इत्यनयो रत्वं स्यात् । ननु 'परिसर्या' इत्यत्रापि प्राप्नोति, न-तत्रान्यदपि वक्तु शक्यम्-क्यपोऽधिकारे यग्रहणं गुणार्थमिति ।। २६ ।।
एदोतः पदान्तेऽस्य लुक ॥ १. २. २७ ॥
एदोद्भ्यां पदान्ते वर्तमानाभ्यां परस्याकारस्य लुग् भवति । तेऽत्र, पटोऽत्र,15 यजन्तेऽत्र । एदोत इति किम् ? दध्यत्र । पदान्त इति किम् ? नयनम्, लवनम् । अस्येति किम् ? तयिह, पटविह ।। २७ ।।
न्या० स०-एदोत इत्यादि-यद्यपि 'पदान्ते' इति व्यधिकरणं विशेषणमकारस्यैतदोतश्च सम्भवति, तथाप्येदोतोरेव कर्तव्यम्, “गोर्नाम्न्यः " [१. २. २८.] इत्यत्राकारलोपबाधनार्थमवादेशविधानात्, अकारस्य पदान्त इति विशेषणे गवाक्ष इत्यत्रापदान्तत्वाद-20 कारस्य लोपप्राप्तिरेव नास्ति, कुतस्तदपवादोऽवादेशः सम्भवति ?, किञ्च, “एदोत:०" [१. २. २७.] इत्यत्रैव सूत्रे 'अस्य' इत्यस्मिन्नेव सूत्रांशेऽकारस्य "नाम सिद्" [१. २. २१.] इति पदत्वे "एदोतः पदान्ते." [१. २. २७.] इत्यनेन लोपप्राप्तिर्नान्यत्रेति एदोतोरेव पदान्त इति विशेषणमिति ।। २७ ।।
गोर्नाम्न्यवोक्षे ॥ १. २. २८ ॥
25 गोरोकारस्य पदान्ते वर्तमानस्याक्षशब्दे परे नाम्नि-संज्ञायां गम्यमा