________________
बृहद वृत्ति - लघुन्याससंवलिते
च विधीयमानतया प्राधान्यात् तदाश्रितमेव कार्यं भवतीति भावः । एवमिति - " नाम नाम्नैकार्थ्ये" [ २. १. १८. ] इति समासे सतीत्यर्थः, ततः 'अनुव्यचलत्' इत्यतः समासात् सेलुंग् “दीर्घङयाप्०” [ १. ४. ४५. ] इत्यनेन । श्रथवेति-स्वरादेराकृतिगणत्वाद् विभक्त्यन्ताभत्वाद् वा अव्ययत्वमित्यर्थः श्रव्ययत्वात् स्याद्युत्पत्तिः, अर्थव एवेति ।। २२ ।।
४६ ]
[ पा० २. सू० २३-२५ . ]
5
एदैतोऽयाय् ॥ १. २. २३ ।।
एकारैकारयोः स्थाने स्वरे परे यथासङ्ख्यम् 'अय् आय्' इत्येतावादेशौ भवतः । नयनम्, नायकः । 'अस्वे' इति इवर्णादिसम्बद्धं तन्निवृत्तौ निवृत्तम्, तेन स्वेऽपि भवति-वृक्षयेव, रायैन्द्री । स्वर इत्येव ? जले पद्मम्, रैधृतिः । ।। २३ ।।
10
Too - एवं इत्यादि - राय ऐन्द्रीति षष्ठीसमासः । " धृङ त् स्थाने" ध्रियते स्वेन रूपेणाऽऽत्माऽनयेति " श्रादिभ्यः " [ ५. ३. ε२. ] इति क्तो धृतिः, ततः षष्ठीसमासः ।
।। २३ ।।
औदौतोऽवात् ॥ १. २. २४ ॥
ओकारौकारयोः स्थाने स्वरे परे यथासङ्ख्यम् 'अव् ग्राव्' इत्येतावादेशौ 15 भवतः । लवनम्, लावकः, पटवोतुः गावौ । स्वर इत्येव ? गोशृङ्गम्, नौकाष्ठम् ।। २४ ।।
व्यक्ये ॥ १.२. २५ ।।
ओकारौकारयोः स्थाने क्यवर्जिते यकारादौ प्रत्यये परे यथासङ्खयम् 'अव् आव्' इत्येतावादेशौ भवतः । गव्यति, गव्यते, नाव्यति, नाव्यते, लव्यम्, 20 पव्यम्, अवश्यलाव्यम्, अवश्यपाव्यम्, गव्यम्, नाव्यम्, यीति किम् ? गोभ्याम्, नोभ्याम् । अक्य इति किम् ? उपोयते, प्रौयत, लौयमानि: । क्यवर्जनाद् यकारादिः प्रत्ययो गृह्यते, तेनेह न भवति - गोयूतिः, नौयानम्, कथं 'गव्यूतिःक्रोशद्वयम्' ? क्रोश-योजनादिवदव्युत्पन्नः संज्ञाशब्दोऽयम्, गवां यूतिर्गव्यूतिरिति व्युत्पत्तिपक्षे तु पृषोदरादित्वाद् भविष्यति । शरव्यमिति तु शरसमा -25