________________
[पा० २. सू० २२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ४५
सङ्ग्रहार्थम् ‘इवर्णादेः' इति पञ्चमी व्याख्येया ।। २१ ।।
न्या० स०-इवर्णेत्यादि । केचिदिति-देवनन्द्यादयः । 'अस्वे स्वरे' इति-असमस्तनिर्देशः स्वरसम्बन्धनिवृत्त्यर्थः, तेन “एदैतोऽयाय" [१. २. २३.] इत्यादौ स्वरस्यैवानुवृत्तिर्न तु 'अस्वे' इत्यस्य, तेन "रायन्द्री" इत्यादौ स्वेऽपि भवति । पित्रर्थ इति-पित्रे अयमिति अस्वपदेन विग्रहः, "तदर्थार्थन" [३. १. ७२.] इति अर्थशब्देनैव चतुर्थ्यां 5 अभिहितत्वाद् वाक्याभावेऽर्थशब्देनैव नित्यसमासः ।। २१ ।।
हस्वोपदे वा ॥ १. २. २२॥
इवर्णादीनामस्वे स्वरे परे ह्रस्वो वा भवति, अपदे-न चेत् तौ निमित्तनिमित्तिनावेकत्र पदे भवतः । नदि एषा, नद्येषा; दधि अत्र, दध्यत्र; मधु अत्र, मध्वत्र; अति एति, अत्येति; अनु एति, अन्वेति । ह्रस्वस्यापि ह्रस्वः10
पर्जन्यवल्लक्षणप्रवृत्ते, ह्रस्वविधानसामर्थ्याच्च कार्यान्तरं न भवति । कश्चित् तु पक्षे प्रकृतिभावमपीच्छति-कुमारी अत्र । अपदे इति किम्, नद्यौ, वध्वौ, नधुदकम्, वध्वासनम्, नद्यर्थः, गौर्याराधः, अन्तर्वतिविभक्त्यपेक्षया पदभेदेऽपि समासे सत्यैकपद्यम्, एवम्-अनुव्यचलत् अथवा 'अनुप्राविशद्' इत्यादिवदखण्डमव्ययं विभक्त्यन्तत्वाच्चैकपदत्वम्, अत एवैतद्योगे “सपूर्वात्15 प्रथमान्ताद् वा" [२. १. ३२.] इति विकल्पेन वस्नसादयो भवन्ति-अथो अनुव्यचलद् वो देवदत्तः, अथो अनुव्यचलद् युष्माकं देवदत्तः, अथो अनुप्राविशद् वो जिनदत्तः, अथो अनुप्राविशद् युष्माकं जिनदत्त इत्यादि । इवर्णादेरित्येव ? हे मुनयाचर, हे साधवाचर । स्वर इत्येव ? नदी वहति । अस्व इत्येव ? दधीदम् ।। २२ ।।
न्या० स०-ह्रस्व इत्यादि । प्रति एतीति-ह्रस्वोऽपि सन्धिकार्यमिति “नित्या धातूपसर्गयोः” इति प्रवर्तत एवेति । ह्रस्वस्यापीति-अयमर्थ:-*व्यक्तिः पदार्थः तत्र प्रतिव्यक्तिलक्षणेन प्रवर्तितव्यम्, अप्रवृत्तौ चानर्थक्यं तस्य स्यात्, इति पर्जन्यवत् फलाभावेऽपि तेन प्रतितव्यम्, पर्जन्यो हि यावदूनं पूर्ण च सर्वमभिवर्षति । वध्वाविति-ननु ऊकारस्य प्रौकारस्य च औष्ठ्यत्वाद् अस्वस्वराभावेन 'अपदे' इति व्यावृत्ते यङ्ग-25 विकलतेति, सत्यम्-मतान्तरेण औकारः कण्ठ्यौष्ठ्य इति ऊकारमोष्ठ्य प्रति अस्व इति न द्वयङ्गविकलतेति, एवं 'नद्येषा' इत्यत्राप्यस्वस्वरत्वमभ्यूह्यम् । 'नधुदकम्' इत्यादी षष्ठीसमासे सत्यष्यन्तर्वतिविभक्त्यपेक्षया पदत्वमपीति युगपत पदत्वापदत्वे अत्र, सत्रे'अपदे' इति सूत्रांशे नत्रः प्रसज्यस्याऽऽश्रयणम्, तत्र विधेः सामर्थ्यप्राप्ततया गौणत्वात् प्रतिषेधस्य
20