________________
४४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १६-२१.]
न्या० स०-प्रोमाङोति । प्रा+ऊढा-प्रोढेति-"गति-क्वन्य." [३. १. ४२ ] इति समासः । ऋशेः सौत्राद् गत्यर्थात् स्तुत्यर्थाद् वा "ऋशि-जनि०" [ उणा० ३६१. ] इति किति ये ऋश्यः, खट्वयात् 'निक्षेपणीया' इत्यादिक्रिया योज्या, तथा 'बध्यतॊः' इति 'भक्षणीयं वर्जनीयं वा' इति योगः ।। १८ ।।
उपसर्गस्यानिणेधेदोति ॥ १. २. १६ ॥
उपसर्गसम्बन्धिनोऽवर्णस्य इण एधतिवजिते एकारादावोकारादौ च धातौ परे लुग् भवति । प्रेलयति, परेलयति, प्रोखति, परोखति । उपसर्गस्येति किम् ? प्रगता एलका अस्मात् प्रैलको देशः । अनिणेधिति किम् ? उपैति, परैति, उपैधते, परैधते । एदोतीति किम् ? उपायते, प्लायते ॥ १६ ॥
न्या० स०-उपसर्गस्येत्यादि-इण च एच्च-इणेत्, न इणेत्-अनिणेत्, अनिणेच्च 10 तत् एच्च-अनिणेधेत्, अनिणेच्च ओच्चेत्यादिविग्रहः, न विद्यते इणेधौ यत्र सोऽनिणेध्, स प्रासावेच्च, ततो द्वन्द्व इति वा ॥ १६ ॥
वा नाम्नि ॥ १. २. २० ॥
नामावयवे एकारादावोकारादौ च धातौ परे उपसर्गसम्बन्धिनोऽवर्णस्य लुग् वा भवति । उपेकीयति, उपैकीयति ; प्रोषधीयति, प्रौषधीयति ॥ २० ॥ 15
न्या० स०–वा नाम्नीति । उपेकोयतीति-अत्र पस्य "धुटस्तृतीयः" [२. १. ७६.] इति बत्वं न *प्रसिद्ध बहिरङ्गम् इति न्यायात्, न च वाच्यम्-"स्वरस्य परे." [७. ४. ११०.] इत्यस्य "न सन्धि०" [७. ४. १११.] इत्यादिना बाधितत्वात् प्राप्नोतीति, . यतस्तत्र परिभाषाऽपि *प्रसिद्ध बहिरङ्गम् इत्यनेन न्यायेनाबाधि, तत्र सूत्रे सन्धावपि सिद्ध द्विग्रहणात् ।। २० ।।।
इवदिरस्वे स्वरे य-व-र-लम् ॥ १. २. २१ ॥
इवर्णोवर्ण-ऋवर्ण-लुवर्णानामस्वे स्वरे परे यथासङ्घय 'य, व, र, ल्' इत्येते आदेशा भवन्ति । दध्यत्र, नद्येषा, मध्वत्र, वध्वासनम्, पित्र्यर्थः, क्रादयः, लनुबन्धः, लाकृतिः । इवर्णादेरिति किम् ? पचति । अस्व इति किम् ? दधीदम् । स्वर इति किम् ? मधु पिबति । केचित् तु 'इवर्णादिभ्यः25 परान् य-व-र-लान्' इच्छन्ति-दधियत्र, तिरियङ्, मधुवत्र, भूवादयः, तन्मत
20