________________
५८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ६-७]
न्या० स०-रः क-खेत्यादि । ननु *निरनुबन्धग्रहणे न सानुबन्धस्य इति न्यायात कः करोतीत्यादौ सानुबन्धस्य रेफस्यादेशो न प्राप्नोति, सत्यम-"अरोः सूपि०" [१. ३. ५७.] इत्यत्र रुवर्जनाद् रोरप्यादेशः, तद्धि "रः पदान्ते" [१. ३. ५३.] इति सूत्राद् निरनुबन्धे रेफेऽनुवर्तमाने स्वयमेव सिद्ध सत् ज्ञापयति- निरनुबन्धग्रहणे सामान्यग्रहणम् ३ इत्यपि न्यायोऽस्तीति ॥ ५ ॥
श-ष-शे श-ष-सं वा ॥ १. ३. ६ ॥
पदान्ते वर्तमानस्य रेफस्य श-ष-सेषु परेषु यथासंख्यं 'श ष स' इत्येते आदेशा वा भवन्ति । कश्शेते, कः शेते; कष्षण्डः, कः षण्डः; कस्साधुः, कः साधुः; अन्तश्शेते, अन्तः शेते; मातष्षण्डे !, मातः षण्डे !, पयस्सु, पयःसु । कथं गीर्षु, धूर्षु ? अरो रेफस्य सुपि रेफो वक्ष्यते । 'क: श्शकार'10 इत्यादिषु त्वघोषे शिट्परे विसर्जनीयस्य विधानाद् रेफ एव नास्तीति न भवति; एवं पूर्वोत्तरयोरपि योगयोर्द्रष्टव्यम्-वासः क्षौमम्, अद्भिः प्सातम्, असेः त्सरुः । नवाधिकारे वाग्रहणमुत्तरत्र विकल्पनिवृत्त्यर्थम् ।। ६ ॥
न्या० स०-श-ष-स इत्यादि-ननु 'श-ष-से सो वा' इत्येवं सकार एव विधीयताम्, तस्य च "सस्य शषौ” [१. ३. ६१.] इति कृते 'कश्शेते, कष्षण्डः' इत्यादौ शकार-षकारौ15 सेत्स्यतः, एवमुत्तरत्रापि 'कश्चरति, कष्टीकते, भवाश्चरति, भवाँष्टीकते' इत्यादौ श-षौ सेत्स्यत इत्युत्तरार्थमिति न वक्तव्यम्, तथा 'कश्शेते' इत्यादौ "धुटस्तृतीयः'' [२. १. ७६.] इत्यस्मिन् कर्तव्ये रुत्वस्य, 'अन्तश्शेते' इत्यादौ तु प्रसिद्ध बहिरङ गम् । इति न्यायेन शत्वस्यासिद्धत्वे तृतीयत्वमपि न प्रवर्त्यति, तत् किं श-षयोः पृथग्विधानेनेति ? सत्यम्
प्रसिद्ध बहिरङ गमन्तरङ्गे २ इति न्यायस्यानित्यत्वज्ञापनार्थम्, तेन "बभूवुषा"20 इत्यादौ स्वरनिमित्तमुवादि सिद्धम् । किञ्च, श-ष-स-ग्रहणं व्यक्त्यर्थम्, तेनैतेषु कृतेष्वेतद्विलक्षण कार्यान्तरं न भवति, ततश्चान्तश्शेते मातष्षण्ड इत्यादौ "धुटस्तृतीयः" [२. १. ७६.] इति जत्व-डत्वादिकं न भवति, 'कश्शेते' इत्यादौ तु तृतीयाभावो रोः परेऽसत्त्वादपि सिध्यतीति न्यासः । कथं तर्हि 'सर्पिष्षु' इत्यादौ षत्वमिति ? सत्यम्श-ष-सविलक्षणं तृतीयत्वादिकं न भवति, श-ष-सरूपं तु भवत्येवेति दिक् ॥ ६ ॥ 25
च-ट-ते सद्वितीये ॥ १. ३. ७ ॥
पदान्ते वर्तमानस्य रेफस्य च-ट-तेषु सद्वितीयेषु परेषु यथासंख्यं 'श, ष, स' इत्येते आदेशा भवन्ति । च-छयोः शः-कश्चरति, कश्छादयति, अन्तश्वरति, अन्तश्छादयति । ट-ठयोः षः-कष्टीकते, कष्ठकारेण, पुनष्टीकते,