________________
४२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १६.]
न्या० स०-स्वरेत्यादि-सममात्रौषधनिष्पन्नश्चूर्णोऽपि सम इत्यवयवधर्मेण समुदायस्य व्यपदेशः, एवमिहापि स्वैरावयवयोगात् समुदायोऽपि त्यात्मक: स्वैरः, स्वैर्यवयव. योगात् स्वैरी, अक्षौहिण्यवयवयोगादक्षौहिणी, ततः स्वैरश्चासौ स्वैरी च, स चासो अक्षौहिणी चेति कर्मधारयः, यथा-"मर्यादाभिविधौ च य:०" इत्यत्र समुदायोऽवयवशब्देन मर्यादावयवत्वाद् मर्यादा, अभिविध्यवयवत्वाभिविधिरिति व्यपदिश्यते ततो विशेषण- 5 समासो भवति, समुदाये च स्वरस्वैर्यक्षौहिणीरूपे कार्यासम्भवाद् अवयव एव स्वैर इत्यादिः कार्यभागिति: सौत्रो वा निर्देशः, तेनेतरेतरयोगे बहवचनं समाहारे च हस्वत्वं न भवति, एवमन्यत्रापि। तथाऽत्र सूत्रे विषयसप्तमी, तेन स्वैरादिषु निष्पत्स्यमानेषु योऽकार इत्यर्थः । स्वेन आत्मना ईरः-स्वरः "कारकं कृता" [ ३. १. ६८. ] इति समासः, ईर इति सामान्येन घान्तस्य कान्तस्य च परिग्रह इत्युभयत्रापि कार्यम्, स्वैर-10 शब्दस्य घनन्तस्यापि अभ्रादिदर्शनान्मत्वर्थीयेनाप्रत्ययेन कत्रभिधानं भवति । स्वयमीरतीति-युजादित्वात् पाक्षिकणिजन्ततया प्रयोगोऽयम् । एत्वार्थमिति-अन्यथा णिनि स्वेरीत्यनिष्टरूपमापद्येत ।। १५ ।।
अनियोगे लुगवे ॥ १. २. १६ ॥
नियोगो नियमोऽवधारणम्, तदभावोनियोगोऽनवक्तृप्तिः, तद्विषये15 एवशब्दे परेऽवर्णस्य लुग-लोपोऽदर्शनं भवति । इहेव तिष्ठ, अद्येव गच्छ; स्वेच्छाव त्तिरत्र गम्यते, नावधारणम् ; नियोगे तु इहैव तिष्ठ, मा गाः । ये त्वनियोगे अव्यापारणे इच्छन्ति तन्मते शास्त्र-लोकप्रतीतप्रयोगविरोधः, तथाहि-"अमैवाऽव्ययेन" [पाणि० २. २. २०.] "धातोस्तन्निमित्तस्यैव" [पाणि० ६. १. ८०.] "तपस्तपःकर्मकस्यैव" [पाणि० ३. १. ८८.] “लङ:20 शाकटायनस्यैव" [पाणि० ३. ४. १११.]; 'येनैव हेतुना वाक्यं तेनैव वृत्तिरपि प्राप्नोति' [पाणि सू० , भाष्ये] 'यथैव तर्हि' [पाणि० सू० १. १. ३. भाष्ये] 'इहैव स्याद्' [पाणि० सू० १. १. २०. भाष्ये] इति; “यदैव पूर्वे जनने शरीरम्" [कुमारसं० १. ५३.] "०दृशैव कोपारुणया रिपोरुरः०" [कादम्बरीमङ्गल श्लो० ३] "अद्यैवाऽऽवां रणमुपगतौ तातमम्बां च नत्वा०"25 [वेणीसंहारे, ४. १५.] “तरसैव कोऽपि भुवनैकपुरुष ! पुरुषस्तपस्यति०" [किरातार्जु० १२. २६.] इति कथम् ? 'शकानामन्धु:-शकन्धुः; अटतीतिअटा, कुलात् कुलस्य वा अटा-कुलटा; पततीति-पतः; पतोऽञ्जले:पतञ्जलिः; सीम्नोऽन्तः-सीमन्तः, केशविन्यास एव; प्रार्थनायाऽध्ययनम्