________________
[पा० २. सू० १४-१५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ४१
प्रस्यैषैष्योढोढ्यूहे स्वरेण ॥ १. २. १४ ॥
प्रशब्दसम्बन्धिनोऽवर्णस्य 'एष एष्य ऊढ ऊढि ऊह' इत्येतेषु परेषु परेण स्वरेण सहितस्य स्थाने 'ऐदौतौ' आदेशौ भवतः, आसन्नौ । प्रैषः, प्रेष्यः, प्रौढः, प्रौढिः, प्रौहः । ऊहे नेच्छन्त्येके । प्रस्येति किम् ? अपोढः, उपोढः । एषादिष्विति किम् ? प्रेतः, प्रोतः । कथं प्रेषः, प्रेष्यः ? ईषे ईष्ये च 5 भविष्यति, यदापि 'पा + ईष्य-एष्य' तदापि “प्रोमाङि" [१. २. १८.] इत्यवर्णलोपे प्रेष्य इत्येव भवति, यस्मिन् प्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति न्यायाद् “उपसर्गस्याऽनिणेधेदोति" [१. २. १६.] इत्यस्यैवायं बाधकः, न "अोमाङि" [१. २. १८.] इत्यस्य । अथेह कस्मान्न भवति-प्रेषते, प्रेष्यते, प्रोढवान्' इति ? अर्थवद्ग्रहणेऽनर्थकस्याग्रहणात्र । 10 कथं तर्हि 'ऊढि' शब्दस्य ण्यन्तस्य सार्थकस्य प्रयोगे प्रोढयतीति ? 'ऊढ' शब्देन सार्थकेन स्याद्यन्तेन साहचर्याण्ण्यन्ते श्रौत्वाभावात्, प्रौढादिशब्दात् तु गौ प्रौढयतीत्यादि भवत्येव ।। १४ ।।
न्या० स०-प्रस्येत्यादि । अवर्णस्य कायिणोऽनुवृत्तेस्तस्य च प्रशब्देन सामानाधिकरण्याऽयोगाद् अवयवावयविसम्बन्धे षष्ठीत्याह-प्रशब्दसम्बन्धिनोऽवर्णस्येति । यदा15 'प्रा+ईष्य' इति क्रियते तदापि “ोमाङि" [१.२.१०.] इत्यस्य विषयेऽपि "उपसर्गस्याऽनिणे." [ १. २. १६. ] इत्यस्य प्राप्तिरेव *उभयो: स्थाने०* इति न्यायेन 'पाङ +ई' इत्येतयोरुभयोः स्थाने निष्पन्नस्य एतो यदा प्राङा व्यपदेशस्तदा “प्रोमाङि" [१. २. १८.] इत्यस्य, अन्यथा "उपसर्गस्य." [ १. २. १६.] इत्यस्येत्यत आहयस्मिन् प्राप्ते० इति-प्राप्त एवेत्यवधारणं व्याख्यानात् ।। १४ ।।
स्वैर-स्वैर्यक्षोहिण्याम् ॥ १. २. १५ ॥
'स्वैर स्वैरिन् अक्षोहिणी' इत्येतेषु अवर्णस्य परेण स्वरेण सहितस्य "ऐत् औत्' इत्येतावादेशौ भवतः । स्वस्येरः-स्वैरः, घञ्; स्व ईरोऽत्रेतिस्नैरमास्यताम् ; स्वयमीरति ईर्ते वा स्वैरः, नाम्युपान्त्यलक्षणः कः । स्वयमीरितुं शीलमस्येति-स्ौरी, नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति25 स्नैरिणी। अक्षाणामूहोऽस्यामस्तीति-अक्षौहिणी। स्नैरशब्दान्मत्वर्थीयेनैव 'इना सिद्धे पृथक् ‘स्नैरिन्' ग्रहणं ताच्छीलिकादिणिन्नन्तेऽपीरिन्शब्दे ऐत्वार्थम् । ॥ १५॥
20