________________
४०
]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ११-१३.]
लुत्याल वा ॥ १. २. ११ ॥
उपसर्गसम्बन्धिनोऽवर्णस्य लति-लकारादौ नामावयवे धातौ परे परेण लुकारेण सहितस्य 'पाल' वा भवति । अलोऽपवादः । उपाल्कारीयति, उपल्कारीयति । अत्रापि पक्षे ह्रस्वत्वमिच्छन्त्येके-उपलकारीयति । उपसर्गस्येत्येव ? इहल्कारीयति । तृतीत्येव ? ल कारमिच्छति-उपल्कारीयति ॥ ११ ॥ 5
ऐदौत् सन्ध्य
क्ष
॥ १. २. १२ ॥
अवर्णस्य स्थाने सन्ध्यक्षरैः परैः सहितस्य 'ऐत् औत्' इत्यादेशावासन्नौ भवतः, एवं चैकारैकाराभ्यां सहितस्य ‘ऐकारः' ओकारौकाराभ्यां सहितस्य तु “ौकारः'। तनैषा, खट्नैषा, तसैन्द्री, सैन्द्री, तवौदनः, खट्वौदनः, तवौपगवः, खट्वौपगवः । अवर्णस्येत्येव ? दध्येतत्, दध्यैच्छत्, मध्वोदनः,10 साध्वौषधम् । 'सन्ध्यक्षरैः' इत्यत्वनिर्देशाद् 'उपसर्गस्य' इति निवृ त्तम् । ।। १२ ॥
___ न्या० स०-ऐदोदित्यादि। नन्वत्र त्रिमात्र-चतुर्मात्रयोरादेशिनोः स्थाने कथं द्विमात्रावेवादेशौ भवतः ? यावता *स्थान्यासन्नः* इति न्यायात् त्रिमात्रौ चतुर्मात्रौ च प्राप्नुत इति, सत्यम्-‘सन्ध्यक्षरैः' इति बहुवचनं द्विमात्रादेशप्रतिपत्त्यर्थम्, अन्यथैकवचनेन15 निदिशेत् ; एतदर्थं च सद् उपसर्गनिवृत्तिमपि करोतीत्याह–सन्ध्यक्षररिति ।। १२ ।।
ऊटा ॥ १. २. १३ ॥
अवर्णस्य परेणोटा सहितस्य स्थाने अौकारादेशो भवति, आसन्नः । धौतः, धौतवान् । लावयति पावयतीति क्विपि णिलोपे “अनुनासिके च च्छ्वः शूट्" [४. १. १०८.] इत्यूटि-लौः, पौः । ओकारापवादो योगः । 20 ॥ १३ ॥
न्या० स०-ऊटेति । 'ऐदौद्' इति समुदायानुवृत्तावपि “प्रासन्नः" [७. ४. १२०.] इति न्यायाद् प्रौदेव भवतीत्याह-प्रौकारादेश इति । लौः, पौः, इति-प्रकारस्याप्युदाहरणमिदमेव, लू-पूभ्यामजन्ताभ्यामलन्ताभ्यां वा लवमाचष्टे पवमाचष्टे "णिज् बहुलम्" [ ३. ४. ४२. ] इति णिचि क्विबादिः पूर्ववत् ।। १३ ।।
25