________________
[पा० २. सू० ६-१०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[
३६
ऋत्यारुपसर्गस्य ॥ १. २. ६ ॥
उपसर्गस्य संबन्धिनोऽवर्णस्य स्थाने ऋकारादौ धातौ परे परेण ऋकारेण सहितस्यारादेशो भवति । सर्वापवादः । प्रार्च्छति । परार्छति । प्रार्नोति । परार्नोति । ऋतीति किम् ? उपेतः । उपसर्गस्येति किम् ? इहर्च्छति, इहऋच्छति । येन धातुना युक्ताः प्रादयस्तं प्रति गत्युपसर्ग- 5 संज्ञाः तेनेह न भवति-प्रगता ऋच्छका अस्मात् प्रछेको देशः, एवम्, प्रर्षभं प्रश्यं वनम् । आरिति वर्तमाने पुनराम्रहणमारेव यथा स्यादित्येवमर्थम्, तेनेहोत्तरयोश्च ह्रस्वत्वं बाध्यते ॥ ६ ॥
न्या० स०-ऋत्येत्यादि-उपसृत्य धातुमर्थविशेष सृजतीति लिहाद्यचि न्यङ्कवादित्वाद् गत्वे उपसर्गः । सर्वापवाद इति-पूर्वसूत्रविहित पारादेशः "अवर्णस्य."10 [ १. २. ६. ] इत्यर एव बाधको न ह्रस्वस्य, अयं त्वरो ह्रस्वस्य च सर्वस्य प्राप्नुवतो बाधक इत्यर्थः । प्रार्छतीति ऋच्छेरतर्वा "श्रौति." [५. २. १०८.] इति ऋच्छादेशे येन धातुनेति-यद्येवं प्रणसं मुखमित्यादौ प्रशब्दस्योपसर्गत्वाभावे "उपसर्गात्" [७. ३. १६२.] इत्यनेन नसादेशो न प्राप्नोति, उच्यते-*यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते, न तु संभवत्युपसर्गत्वे* इति । नन्वेवं प्रगता ऋच्छका यस्मात् स प्रर्छक 15 इत्यादौ प्रादित्वेन प्रशब्दस्योपसर्गत्वादार् प्राप्नोति, नैवम्-प्रशब्दोऽत्र गतार्थमन्तर्भाव्य प्रवर्त्तमानो णकप्रत्ययस्याथं कर्तारं विशिनष्टि न ऋच्छेर्धातोरर्थमित्येतद्धातुसंबन्धाभावाद् एनं प्रति अनुपसर्गत्वमस्योच्यते इति ।।६।।
नाम्नि
वा ॥ १. २. १० ॥
उपसर्गसम्बन्धिनोऽवर्णस्य स्थाने ऋकारादौ नाम्नि-नामावयवे धातौ20 परे परेण ऋकारेण सहितस्य 'पार्' आदेशो वा भवति । प्रार्षभीयति, प्रर्षभीयति । केचित् तु पक्षे ह्रस्वत्वमपि मन्यन्ते-प्रऋषभीयति । उपसर्गस्येत्येव ? इहर्षभीयति । ऋतीत्येव ? उपोष्ट्रीयति, ऋकारमिच्छति-उपर्कारीयति ।। १० ।
__ न्या० स०-नाम्नीत्यादि । नाम्नीत्यनेन ऋकारकादिर्धातुः सामानाधिकरण्येन 25 विशेषयितु न शक्यत इत्यवयवद्वारेण ऋकारादिसमुदायो धातुम्निीत्यनेन विशेष्यत इत्याह-नामावयवे इति ।। १० ।।