________________
३ ८
]
बृहद्वृत्ति-लघुन्याससंवलिते .
[पा० २. सू० ७-८.]
ऋणे प्र-दशार्ण-वसन-कम्बल-वत्सरवत्सतरस्यार
॥१. २.७॥ प्रादीनामवर्णस्य ऋणशब्दे परे परेण ऋकारेण सहितस्यारित्ययमादेशो भवति । अरोऽपवादः । प्रगतमृणं प्रार्णम् । दशानामृणं दशार्णम्, दश ऋणान्यस्य दशार्णः क्षत्रियः, दश ऋणानि जलदुर्गाण्यस्यां दशार्णा नदी। 5 ऋणस्यावयवतया संबन्धि ऋणम्-ऋणार्णम् । वसनानामृणम्-वसनार्णम् । एवम्, कम्बलार्णम् । वत्सरार्णम् । वत्सतरार्णम् । समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनोक्तत्वादिहोत्तरत्र च ह्रस्वोऽपि भवति-प्रऋणम्, दशऋणमित्यादि। वत्सरशब्दस्याऽऽरं नेच्छन्त्येके ।। ७ ।।
न्या० स०-ऋणे प्रेत्यादि-दश ऋणानि अस्येति-वर्णानुपूर्वीविज्ञानार्थं व्युत्पत्ति-10 मात्रमेतत् यावता संज्ञाशब्दोऽयम् । यद्यपि परत्वात् सर्वत्रार् प्राप्नोति तथाप्यर एव बाधक पारादेशो न ह्रस्वस्येत्याह–समानानामिति ।। ७ ।।
ऋते तूतीयासमासे ॥ २. १.८ ॥
ऋतशब्दे परे यदवर्णं तस्य स्थाने परेण ऋकारेण. सहितस्याऽऽरित्ययमादेशो भवति, तौ चेन्निमित्तनिमित्तिनावेकत्र तृतीयासमासे भवतः । शीतेन15 ऋतः-शीतार्तः । दुःखेन ऋत:-दुःखार्तः। ह्रस्वोऽपि भवति-शीतऋतः, दुःखऋतः । ऋत इति किम् ? सुखेतः, दुःखेतः । तृतीयाग्रहणं किम् ? परमर्तः । समास इति किम् ? सुखेनर्तः, दुःखेनर्तः । ऋतेन कृतः-ऋतकृतः, परमश्चासौ ऋतकृतश्च-परमर्तकृत इत्यत्र तु निमित्त-निमित्तिनौ नैकत्र तृतीयासमास इति न भवति । अवर्णस्येत्येव ? पितृ तः । कथम् "क्षुधातः सन् 20 शालीन् कवलयति मांस्पाकवलितान्” ? क्षुधशब्दस्य हि व्यञ्जनान्तत्वात् 'क्षुदृत' इति प्राप्नोति, नैवम्-पाङ्पूर्व ऋते तृतोयान्तस्यासमस्तस्यायं प्रयोगः । आ ऋत इति उत्तरेणार्-आर्तः, तत क्षुधेत्यनेन संबन्धः । यस्य तु व्यञ्जनान्तादप्याप् तन्मते-क्षुधया ऋत इति समस्तप्रयोग एवायम् ।। ८ ।।
__ न्या० स०-ऋते इत्यादि। क्षुधात इति-पत्र तृतीयान्तस्य 'क्षुध्' शब्दस्य25 "अोमाङि" [ १. २. १८. ] इति आलोपे प्रसिद्ध बहिरङ्गमन्तरङ्गे* इति न्यायान्न धस्य दत्वम् ॥ ८॥