________________
३६ ]
बृहवृत्ति-लवुन्याससंवलिते
[पा० २. सू० ३-४.]
कर्तृ ऋषभः, कतृ षभः । बाललकारः, बालल्कारः । कन्यलकारः, कन्यल्कारः, इत्यादि । ह्रस्वकरणसामर्थ्यादेव कार्यान्तरं न भवति, अत एव ह्रस्वस्यापि ह्रस्वः क्रियते । समानानामित्येव ? वृक्षाव च्छति । ऋ-तृतीति किम् ? दण्डाग्रम्, कन्याया ऋकारः कन्यर्कारः। तकार उच्चारणार्थः । कश्चिद् ह्रस्वत्वाभावपक्षे प्रकृतिभावमपीच्छति, तन्मते-खट्वाऋश्यः, नदीऋश्य इत्या- 5 द्यपि भवति । प्रार्छतीत्यादौ तु परत्वादारेव भवति । “ह्रस्वोऽपदे वा" [१. २. २२.] इत्येव सिद्धेऽवार्थं पदार्थ स्वार्थं च वचनम् ।। २ ॥
न्या० स०-ऋ-लतीत्यादि-अत्र तकारमन्तरेण लकारात् सप्तम्येकवचने लत्वे च लस्वरूपस्य विकृतत्वात् किमयं लकारः ? उत लकार: ? इति सन्देहः स्यात् ।। २ ॥ लुत ऋ-ल. ऋ-लुभ्यां वा ॥ १. २. ३ ॥
10 लतः स्थाने ऋता लता च परेण सहितस्य यथासंख्यम् 'ऋ ल.' इत्येतावादेशौ वा भवतः । 'ऋ' इति स्वरसमुदायो वा स्वर-
व्यञ्जनसमुदायो वा वर्णान्तरं वा, तदपीषत्स्पृष्टकरणं द्विरेफतुरीयमध्यर्धस्वरमात्रमित्येके, संवृततरं सफलरेफर्कारमर्धमात्रस्वरभक्तिकमित्यन्ये, द्विरेफश्रुतिकमध्यर्धस्वरमात्रमित्यपरे । एवम् 'ल.' इत्यपि । ऋता-कृ कारः, पक्षे पूर्वेण ह्रस्व15 उत्तरेण ऋकारश्च-क्लऋकारः, कृ कारः । लता-क्ल कारः, पक्षे दीर्घत्वं ह्रस्वत्वं च, क्लृ कारः, क्ललकारः । लवर्णस्य स्थानित्वमिच्छन्त्येके ।। ३ ।।
न्या० स०-लत इत्यादिः । ऋ, इति दीर्घश्चेद् उत्तरेण सिद्धत्वादत्र विधानमनर्थकमिति सविशेषमादेशमाह-'ऋ' इति स्वरसमुदायो वेति । वर्णान्तरत्वे मतभेदानाह-तदपोति । द्विरेफतुरीयमिति-रेफस्य तुरीयौ रेफतुरीयौ, एकस्य रेफस्य चतुर्भागी-20 कृतस्य द्वौ चतुर्थभागावित्यर्थः, द्वौ रेफतुरीयावस्मिन्निति । अधिकमधं यस्याः सा, अध्यारूढाऽर्धेन वा अध्यर्धा, स्वरस्य मात्रा स्वरमात्रा, अध्यर्धा स्वरमात्राऽस्मिन्निति अध्यर्धस्वरमात्रम्, पादोन मात्राद्वयमित्यर्थः । सकलरेफर्कारमिति-सकल: परिपूर्णो रेफ ऋकारश्चात्र तत् तथा । अर्ध मात्रा यस्याः सा अर्धमात्रा, स्वरस्य भक्तिर्भागः स्वरभक्तिः अर्धमात्रा स्वरभक्तिर्यस्य तत् तथा ।। ३ ।।
ऋतो वा तौ च ॥ १. २. ४ ॥ ऋकारस्य स्थाने ऋता लुता च परेण सहितस्य यथासंख्यम् 'ऋ-ल.'