________________
[पा० २. सू० १-२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[
३५
0 अथ द्वितीयः पादः ।
समानानां तेन दीर्घः ॥ १. २. १ ॥
समानसंज्ञकानां वर्णानां तेन परेण समानेन सहितानां दी? भवति, आसन्नः [७. ४. १२०.] । दण्डाऽग्रम् । तवाऽऽयुः । खट्वाऽत्र । साऽऽगता । दधीदम् । दधीहते । नदीन्द्रः । नदीहते । मधूदकम् । मधृहनम् । वधूदरम् । वधूढा । पितृ षभः । मातृ कारः । कृ कारः । समानानामिति किम् ? वागत्र । 5 तेनेति किम् ? दधि शीतम् । बहुवचनं व्याप्त्यर्थम्, तेनोत्तरसूत्रेण लु-ऋतोरपि ऋ-लुति ह्रस्वो भवति-क्लऋषभः, होतृलकारः, अन्यथा "ऋस्तयोः" [१. २. ५.] इति परत्वाद् ऋरेव स्यात् ।। १ ॥
न्या० स०-समानामित्यादि-अत्राऽनन्तराऽनन्तरिभावसम्बन्धे षष्ठी। 'तेन' इति तृतीयानिदशः स्थानित्वप्रतिपत्त्यर्थः । ननु 'तेन' स्थाने 'स्वेन' क्रियताम्, किं तेन' इति ? 10 एवं सति 'इवर्णादेरस्वे स्वरे०" [१. २. २१.] इत्यत्रास्वग्रहणं न कृतं स्यादिति फलम् ; उच्यते-'इवर्ण-चवर्ग-य-शास्तालव्याः' इति न्यायाद् 'दधि शीतम्, इत्यत्र दीर्घत्वं स्यात, तन्मा भूदित्येवमर्थम् । ननु 'तेन' इति सहार्थे [ २. २. ४५. ] तृतीयेति द्वयोर्दीर्घत्वं प्राप्नोति, यथा-पुत्रेण सह स्थूल इति, नैवम्-अत्र 'अजाक्षीरेण सहौषधं पिबेइ' इतिवद् एक एव दीर्घ इति ज्ञातव्यम् । 'दण्डाऽग्रम्' इत्यत्र "वृत्त्यन्तोऽसष" [ १. १. २५. ] इत्यग्र-15 शब्दस्य पदत्वाभावे दण्डशब्दाऽकारस्य "लुगस्यादेत्यपदे" [ २. १. ११३. ] इति. कथं न लुग् भवति ? इति चे , उच्यते-सर्वं वाक्यं सावधारणं भवति* इति न्यायाद् 'अपदे' इति सावधारणं व्याख्येयम्-अपदे एव यद्यकारो भवतीति, अयं तु वाक्यावस्थायां पदेऽपीति । तर्हि *गतिकारक ०* इति न्यायात् 'प्रायणम्' इत्यादी विभक्त्युत्पत्तेः प्रागेव समासे कथं न भवतीति ? सत्यम्-'अपदे' इत्युत्तरपदमपि गृह्यते, उत्तरं च तत् पदं चेति 20 कृते "ते लुग् वा" [ ३. २. १०८. ] इत्युत्तरशब्दलोपादिति ।। १ ।।
ऋ-लुति ह्रस्वो वा ॥ १. २. २ ।।
समानानामकारे लकारे च परे ह्रस्वो वा भवति । बालऋश्यः, ' बालीः । खट्वऋश्यः, खट्वीः । महऋषिः, महर्षिः धूलिऋतुः, धूल्य॒तुः ।
नदि ऋच्छति, नघृच्छति । तनुऋजुता, तन्व जुता। वधुऋणम्, वध्व णम् ।25