________________
३४ ]
बृहद्वृत्ति-लवुन्याससंवलिते
[पा० १. सू० ४०-४२.]
बहु-गणं भेदे ॥ १. १. ४० ॥
'बहु' 'गण' इत्येतौ शब्दौ भेदे वर्तमानौ सङ्ख्यावद् भवतः, भेदो नानात्वमेकत्वप्रतियोगि । बहुकः, बहुधा, बहुकृत्वः । गणकः, गणधा, गणकृत्वः । भेद इति किम् ? नैपुल्ये सङ्घ च सङ्ख्याकार्य मा भूत् । बहुगणौ न नियतावधिभेदाभिधायकाविति सङ्ख्याप्रसिद्धेरभावाद् वचनम्, अत एव 5 भूर्यादिनिव त्तिः ।। ४० ।।
न्या० स०-बहुगरणमित्यादि । वैपुल्य इति-यथा रजोगणः, रजःसंघात इत्यर्थः । अथ बहु-गणशब्दयोर्भेदवचनत्वात् सङ्ख्यात्वमस्त्येव, यतो भेदः परिगणनं सङ्खय ति, ततश्च क-व्द्यादीनामिव बहु-गणशब्दयोरपि लोकादेव सङ्ख्यात्वसिद्धौ किमनेनातिदेशवचनेन ? अतिदेशो हि अन्यत्र प्रसिद्धस्यान्यत्र प्रसिद्धिप्रापणार्थ इत्याह-बहुगणावित्यादि-10 लोके ह्यक-व्द्यादीनां नियतावधिभेदाभिधायित्वे सङ्ख्याप्रसिद्धिः, अनयोश्च न तथेति सङ्घयाप्रसिद्ध रभाव इति ।। ४० ।।
क-समासेयः ॥ १. १. ४१ ॥
अध्यर्धशब्दः कप्रत्यये समासे च विधातव्ये सङ्ख्यावद् भवति । अध्यर्धेन क्रीतम्-अध्यर्धकम्, “सङ्ख्या-डतेश्चाशत्तिष्टेः कः" [६. ४. १३०.] इति15 कः । अध्यर्थेन शूर्पण क्रीतम्-अध्यर्धशूर्पम्, अत्र सङ्ख्यापूर्वत्वेन द्विगुत्वे क्रीतार्थस्येकणः “अनाम्न्यद्विः प्लुप्" [६. ४. १४१.] इति लुप् । क-समास इति किम् ? धादिप्रत्ययविधौ न भवति ।। ४१ ।।
अपूर्वपदः पूरणः ॥ १. १. ४२ ॥
समासावयवभूते पदे पूर्णपदमुत्तरपदं चेति प्रसिद्धिः, अर्धपूर्वपदः पूरण-20 प्रत्ययान्तः शब्दः कप्रत्यये समासे च विधातव्ये सङ्ख्यावद् भवति । अर्धपञ्चमकं अर्धपञ्चमशूर्पम् ।। ४२ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु
शासनबृहद्व त्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः ॥ हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । 25 कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ।। १ ।।