________________
[पा० १. सू० ३६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
इत्याह-पञ्चम्यदित्यादि । शब्द इति-स च शब्दो वर्णस्तत्समुदायो वा भवति, शब्द्यत इति कृत्वा शब्दशब्देनोच्यत इति । ननु नागमस्य प्रत्ययत्वे को दोष इति ? सत्यम्-'अनन्दत' इत्यादौ नागमेन धातोः खण्डितत्वाद् 'नन्द्' धातो: प्राक "अड़ धातो." [४. ४. २६. ] इत्यडागमो न स्यात् । अथ 'अरुणद्' इत्यादौ श्नप्रत्ययवत् *तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति भविष्यति, तर्हि अस्य न्यायस्यानित्यत्वज्ञापनार्थमन्तग्रहणम्, 5 तेन यका सका इत्यादी इत्वप्रतिषेधः सार्थकः, कस्य प्रकृत्यवयवत्वे त्वित्वप्राप्तिप्रसङ्ग एव न स्यात् । तथाऽन्तग्रहणाभावे लाङ्काकायनिरित्यत्र "चमिवमि." [६. १. ११२. ] इत्यायनित्रि कागमे तस्य प्रत्ययत्वे "ड्यादीदूतः के" [२. ४. १०४. ] इत्यनेन ह्रस्वः स्याद् इति । तथाऽन्तग्रहणाभावे पञ्चम्याद बिधीयमानत्वेनाऽऽगमस्यापि *प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव इति न्यायात् 'प्रेण्वनम्' इत्यादावेव "वोत्तरपदान्त०" [२.३.७५.] 10 इत्यनेन णत्वं स्यात्, न तु 'भद्रबाहुना कुलेन' इत्यादौ 'अनाम् स्वरे०" [ १. ४. ६४. ] इति षष्ठ्यन्ताद् विधीयमानस्य प्रत्ययत्वाभावात् । अपरञ्च-"ऋत्तृष-मृष०" [४. ३. २४.] इत्यत्र "श्रथुङ शैथिल्ये" इत्यस्य प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव* इति न्यायेन नाऽऽगमस्य प्रत्ययत्वे सत्येव ग्रहणं स्यात्, न तु "श्रन्थश् मोचन-प्रतिहर्षयोः" इत्यस्य तस्मादन्तग्रहणं विधेयम् । उभयथाऽपि पञ्चम्यां सम्भवन्त्याम् “परः" [ ७. ४. ११८. ]15 इति परिभाषया प्रत्ययो नियन्त्र्यते-प्रकृतेः पर एवेति । तहि स्वरात् पूर्वो नोऽन्त इत्यपि कथं न लभ्यते ? इति चेत्, सत्यम्-"नो व्यञ्जनस्या०" [ ४. २. ४५. ] इत्यत्रानुदित इति भणनात. अन्यथोपान्त्यत्वाभावात प्राप्तिरेव नास्तीति ।। ३८ ।।
डत्यतु सहयावत् ॥ १. १. ३६ ॥
डतिप्रत्ययान्तमतुप्रत्ययान्तं च नाम सङ्ख्यावद् भवति, एक-व्द्यादिका20 लोकप्रसिद्धा सङ्ख्या, तत्कार्यं भजत इत्यर्थः । कतिभिः क्रीत:-कतिकः, “सङ्ख्या-डतेश्चा-शत्तिष्टे: कः" [६. ४. १३०.] इति कः । कतिभिः प्रकारैःकतिधा, “सङ्ख्याया धा" [७. २. १०४.] इति धा। कति वारा अस्यकतिकृत्वः, “वारे कृत्वस्" [७. २. १०६.] इति कृत्वस् । एवम्-यतिकः, यतिधा, यति कृत्वः; ततिकः, ततिधा, ततिकृत्वः । अतु-यावत्कः, यावद्धा,25 यावत्कृत्वः; तावत्कः, तावद्धा, तावत्कृत्वः; कियत्कः, कियद्धा, कियत्कृत्वः ।। ३६ ॥
न्या० स०-डत्यत्वित्यादि-वत्करणाभावे *कृत्रिमाकृत्रिमयो:* इति न्यायाद् एक-द्वयादीनामकृत्रिमाणां न स्यादिति ।। ३१ ।।