________________
३२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ३७-३८.]
अप्रयोगीत् ॥ १. १. ३७ ॥
इह शास्त्र उपदिश्यमानो वर्णस्तत्समुदायो वा यो लौकिके शब्दप्रयोगे न दृश्यते स एत्यपगच्छतीति इत्संज्ञो भवति । अप्रयोगित्वानुवादेनेत्संज्ञाविधानाच्चास्य प्रयोगाभावः सिद्धः । उपदेशस्तु धातु-नाम-प्रत्यय-विकाराऽऽगमेषु कार्यार्थः । धातौ-एधि, एधते । शीङ्–शेते; इङित्त्वादात्मनेपदम् । 5 यजी-यजते, यजति । चिंग्ट्-चिनुते, चिनोति । कण्डूग्-कण्डूयते, कण्डूयति; ईगित्त्वात् फलवत्यात्मनेपदम् । टुदु-दवथुः; ट्वित्त्वादथुः । नाम्नि-चित्र आश्चर्ये चित्रीयते । माङ्-मा भवान् कार्षीत् ; अत्र माङयद्यतनी। प्रत्यये[वित्-] भवति । विकारे-[ख्यांग-] व्याख्यातासे, व्याख्यातासि । आगमे-- [इट्--] पपिथ । इत्प्रदेशा:--"इङितः कर्तरि" [ ३. ३. २२.] इत्यादयः10 ।। ३७ ।।
न्या० स०-अप्रयोगी०-प्रयोगः शब्दस्योच्चारणम्, सोऽस्यास्तीति प्रयोगी, न प्रयोगी अप्रयोगी इति सज्ञिनिर्देशः, इदिति च संज्ञेति । लौकिक इति-लोकस्य ज्ञाते "लोकसर्वलोकाज्ज्ञाते" [ ७. ४. ८४. ] इतोकण् ।। ३७ ।। अनन्तः पञ्चम्याः प्रत्ययः ॥ १. १. ३८ ॥
15 पञ्चम्यर्थाद् विधीयमानः शब्दः प्रत्ययसंज्ञो भवति । अनन्त:-न चेदन्तशब्दोच्चारणेन विहितो भवति । "नाम्नः प्रथमैकद्विबहौ" [ २. २. ३१. ] वृक्षः, वृक्षौ, वृक्षाः। “स्त्रियां नृतोऽस्वस्रादेर्डीः" [ २. ४. १. ] राज्ञी, की । “प्रात्" [ २. ४. १८. ] खट्वा । “गुपौधूप-विच्छि-परिण-पनेरायः" [ १. ४. १. ] गोपायति, धूपायति । "ऋवर्ण-20 व्यञ्जनाद् घ्यण" [ ५. १. १७. ] कार्यम्, पाक्यम् । अनन्त इति किम् ? अन्तशब्दोच्चारणेन विहितस्याऽऽगमस्य मा भूत्, यथा “उदितः स्वरान्नोऽन्तः" [ ४. ४. ६६. ] इत्यादि । प्रत्ययप्रदेशाः-"प्रत्यये च” [ १. ३. २. ] इत्यादयः ॥ ३८ ॥
न्या० स०-अनन्त:०-न विद्यतेऽन्तशब्दो वाचकोऽभिधायको यस्य स. तथा 125 पञ्चमीति प्रत्ययोऽभिधीयते, स च प्रकृत्यविनाभावीति तेन प्रकृतिराक्षिप्यते, तया चार्थ