________________
[ पा० १ सू० ३५-३६ ] श्रीसिद्धहेमचन्द्रचब्दानुशासने प्रथमोऽध्यायः [ ३१
,,
तत्वादलक्षणमेतद् इत्याह-वत्तसीति । तद्धितस्येत्युपलक्षणम्, ततः “धातोरनेकस्वरात् ०' [ ३. ४. ४६. ] इत्यादिना विहितस्याप्यामो ग्रहरणम् तेन पाचयाञ्चषेत्यादौ टालोपे पदत्वादनुस्वारसिद्धिः । न चोपलक्षणात् षष्ठीबहुवचनस्यापि ग्रहणं किं न स्यादिति वाच्यम्, यतो य आम् ग्रामेव भवति स एव गृह्यते, अयं तु नाम् साम् वा भवतीति । यद्वा वत्तसी अविभक्ती, तत्साहचर्यादामोऽपि प्रविभक्तरेव ग्रहरणम्, ततो दरिद्राश्वकृ-5 वद्भिरित्यत्र क्वसुस्थाननिष्पन्नस्य पचतितरामित्यत्र " किंत्याद्येऽव्यय०" [ ७.३. ८. ] इति विहितस्य च ग्रहणं भवति, यत एतावेव तयोर्वत्-तस्योरविभक्तित्वेन हिताविति व्युत्पत्त्या तद्धितावित्यभिधीयते । अस्मिश्च व्याख्याने "कित्याद्येऽव्यय०" [ ७. ३.८.] इत्यनेन इत्यन्तेन इदमेव सूत्रं संपूर्णं गृह्यते, प्रदिशब्देन तु "धातोरनेकस्वर०" [ ३. ४. ४६. ] इति विहितस्य क्वसु- कानस्थानस्येति । तथा दरिद्राञ्चकृवद्भिरित्यत्रामन्तस्याव्ययत्वेऽपि 10 कुत्सिताद्यर्थे "अव्ययस्य को द् च" [ ७. ३. ३१.] इति अक् न भवति, अपरिसमाप्तार्थत्वेनामन्तस्य कुत्सितार्थासंभवाद् इति । उच्चस्तरामिति - "क्वचित् स्वार्थे" [ ७. ३. ७. ] इति प्रकृष्टे चार्थे तरप् ।। ३४ ।।
क्त्वातुमम् ॥ १. १. ३५ ।।
क्त्वा, तुम्, अम् इत्येतत्प्रत्ययान्तं शब्दरूपमव्ययसंज्ञं भवति । क्त्वा - 15 कृत्वा, हृत्वा, प्रकृत्य, प्रहृत्य । तुम् - कर्त्तुम्, हर्त्तुम् । प्रमिति णम्ख्णमोरुत्सृष्टानुबन्धयोर्ग्रहणम्, न द्वितीयैकवचनस्य क्त्वा तुम्साहचर्यात् । यावज्जीवमदात् ।स्वादुंकारं भुङ्क्ते ।। ३५ ।।
न्या० स० - क्त्वा तुम ० - क्त्वेति ककारोऽसंदेहार्थः, अन्यथा त्वा इति निर्देशे संदेहः स्यात् किमयं क्त्वाप्रत्ययस्य निर्देश: ? किं वा विदितं गोत्वं यकाभिस्ता विदित - 20 गोवा इति त्वप्रत्ययस्याबन्तस्य ? इति न द्वितीयैकवचनस्येति । द्वितीयैकवचनान्तस्याव्ययत्वे "अव्ययस्य को द च" [ ७. ३. ३१.] इति अक् स्यात् । तथा देवस्य दर्शनं कुवित्यादी "तृन्न दन्त० " [२.२ १०.] इत्यनेन षष्ठी न स्यात् । नन्वेवं ह्यस्तन्यद्यतन्यमन्तस्याव्ययत्वं कथं निषिध्यते ? सत्यम् - द्वितीयं च तदेकवचनं चेति विग्रहे तस्यापि संग्रहः, द्वितीयापेक्षया द्वितीयं चैकवचनं ह्यस्तन्यद्यतन्योरमिति ।। ३५ ।।
गतिः ।। १.१.३६ ॥
गतिसंज्ञाः शब्दा अव्ययसंज्ञा भवन्ति । अदः कृत्य, अत्राऽव्ययत्वे "अतः 'कृ - कमि - कंस - कुम्भ - कुशाकर्णी-पात्रेऽनव्ययस्य " [ २. ३. ५. ] इति सकारो न भवति ।। ३६ ।।
25