________________
बृहद्वृत्ति-लघुन्याससंवलिते ।
[पा० १. सू० ३३-३४.]
इति पदत्वे "सपूर्वात प्रथमान्ताद् वा" [२. १. ३२. ] इति विकल्पप्रसङ्गः, तस्मात् तदन्तः समुदाय एवाव्ययम्, न प्रत्ययमात्रमिति। अर्जुनत इति-अत्र सप्तम्येकवचनस्य लुप् ।। ३२ ।।
विभक्तिथमन्ततसाद्याभाः ॥ १. १. ३३ ॥
विभक्त्यन्तप्रतिरूपकाः, थमवसाना ये तसादयः प्रत्ययास्तदन्तप्रतिरूपकाश्च शब्दा अव्ययसंज्ञा भवन्ति । अहंयुः, शुभंयुः । अस्तिक्षीरा ब्राह्मणी । कुतः, यथा, तथा, कथमिति । अहम् १; शुभम्, कृतम्, पर्याप्तम् २; येन, तेन, चिरेण, अन्तरेण ३; ते, मे, चिराय, अह्नाय ४; चिरात्, अकस्मात् ५; चिरस्य, अन्योन्यस्य, मम ६; एकपदे, अग्रे, प्रगे, प्राह णे, हेतौ, रात्रौ, वेलायाम्, मात्रायाम् ७ । एते प्रथमादिविभक्त्यन्तप्रतिरूपकाः । अस्ति,16 नास्ति, असि, अस्मि, विद्यते, भवति, एहि, ब्रूहि, मन्ये, शङ्क, अस्तु, भवतु, पूर्यते, स्यात्, पास, आह, वर्त्तते, नवर्त्तते, याति, नयाति, पश्य, पश्यत, प्रादह, आदङ्क, आतङ्क इति तिवादिविभक्त्यन्तप्रतिरूपकाः ।। ३३ ।।
न्या० स०-विभक्ति-भावति-अत्र "तकु कृच्छ्रजीवने" इत्यस्य स्थाने दकुरिति पठन्ति ।। ३३ ।।
वत्तस्याम् ॥ १. १. ३४ ॥
तत्-तस्याम्प्रत्ययान्तः शब्दोऽव्ययसंज्ञो भवति । वत्-तसिसाहचर्याद् 'आम्' इति तद्धितस्य "किंत्याद्येऽव्यय०" [७. ३. ८.] इत्यादिना विहितस्यामो ग्रहणम् । मुनेरहँ मुनिवद् वृत्तम्, “तस्याहे क्रियायां वत्" [ ७. १. ५१. ] इति वत् । क्षत्रिया इव क्षत्रियवद् युद्धयन्ते, "स्यादेरिवे"25 [ ७. १. ५२. ] इति वत् । पीलुमूलेनैकदिक्-पीलुमूलतो विद्योतते विद्युत्, "तसिः" [ ६. ३. २११. ] इति तसिः । उरसैकदिक्-उरस्तः, “यश्चोरसः" [ ६. ३. २१२. ] इति तसिः। अाम्-उच्चस्तराम्। उच्चस्तमाम् ।। ३४ ॥
20
न्या० स०-वत्तस्याम०-पामिति षष्ठीबहवचनस्य तद्धितस्य परोक्षास्थान-30 निष्पन्नस्य चाविशेषेण त्रयाणामपि ग्रहणं प्राप्नोति, द्वयोरेव चेष्यतेऽतोऽतिव्याप्त्युपह