________________
[ पा० २. सू० १२६ - १३०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६०७
नञ् द्वयोपपदान्नाम्नि शव् प्रत्ययो भवति । बहुवचनमाकृतिगणार्थम् तेन - नास्तिकः, नभः, नारङ्गमित्यादयोऽपि द्रष्टव्याः ।। १२८ ।।
न्या० स० नखादयः । नख इत्यत्र बहुव्रीहौ 'नञ्ऽत्' [ ३. २. १२५. ] प्राप्तोऽनेन निषिध्यते, उष्ट्रमुखादित्वात् समासः । खन्यत इति 'क्वचित्' [५. १. १७१.] इति डः । सत्य इति न नखादौ किंतु नासत्य इत्ययम् । श्ररीणां समूह प्रारं 5 ' षष्ठ्याः समूहे' [ ६. २. ९. ] अण् । नारमञ्चति 'कर्म्मणोऽण्' [ ५.१.७२. ] निपातनादऽञ्चेर्नलोपः, 'आप्लृण लम्भने' नत्र आपेः । न मीयते ' शिग्रुगेरुनमेर्वादयः ' ८११ ( उणादि ) मिगस्तु 'चिनीपीमिसिभ्यो रु ८०६ ( उणादि ) ' यतिननदिभ्यो दीर्घश्च' ८५६ ( उणादि ) । नान्तरीयकमिति नान्तरेणेत्यर्थकथनं सप्तम्यन्तात्तु गहादित्वादीय:, ततः स्वार्थिकः । नास्तिक इति नास्ति पुण्यं पापं चेति मतिरस्येति 10 'नास्तिकास्तिक' ६. ४. ६६. ] इति निपातनादेव सिद्धं । यदा तु न प्रास्तिको नास्तिक इति क्रियते तदा गरणपाठफलम् । नभ इति न बभस्तीति क्विप् न भातीति वा 'मिथिरञ्च्युषि' ९७१ ( उणादि ) इति बहुवचनात् किदऽस् । नारङ्गमिति न न रङ्गति शोभां अच् न अरङ्गमिति वा । रूढिशब्दा एते यथाकथंचित् व्युत्पाद्या नात्राऽवयवार्थाभिनिवेशः कार्यः ॥। ३. २. १२८ ।।
अन् स्वरे ॥ ३.२. १२६ ॥
नञः स्वरादावुत्तरपदे परेऽन् इत्ययमादेशो भवति । न विद्यते अन्तोऽस्येति अनन्तो जिनः, - एवमनादिः प्रजानामभावोऽनजम्, न श्वोऽनश्वः । अन् इति स्वरूपनिर्देशात् नलोपो द्वित्वं च न भवति ।। १२६ ।।
"
को कत्तत्पुरुषे ॥ ३. २. १३० ॥
तत्पुरुषे समासे स्वरादावुत्तरपदे कुशब्दस्य कदित्ययमादेशो भवति । कुत्सितः अश्वः कदश्वः, कदुष्ट्रः, कदन्नम्, कदशनम्, तत्पुरुष इति किम् ? कुत्सिता उष्ट्रा अस्मिन् कूष्ट्रो देशः । स्वर इत्येव ? कुब्राह्मणः ।। १३० ।।
15
20
न्या० स० -- कोः कत्तत्पुरुषे । प्रतिपदोक्तोऽयं तत्पुरुषो गृह्यते तेन कु पृथिवी - मतीतः क्वतीत इत्यत्र कदादेशो न भवति । अथेत्थं भरिणष्यन्ति श्रितादित्वात् समासे 25 सति प्रतिपदोक्तत्व मऽस्तीति । तदपि न वाच्यं यतो द्वितीयान्तं श्रितादिभिः सह समस्यते ततश्च द्वितीयान्तं सामान्यं नाम न प्रतिपदोक्तमिति कदादेशो न भवति ।। ३. २. १३० ।