________________
६०६ ]
बृहत्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १२७-१२८.]
क्षेप इति किम् ? न पचति चैत्रः । अ, मा, नो, ना, प्रतिषेध इत्यकारेण प्रतिषेधार्थीयेनैव सिद्धौ क्षेपे नत्रः श्रवणनिवारणार्थम्, अनुत्तरपदार्थं च वचनम् ।। १२६ ।।
न्या० स०-त्यादौ क्षेपे। न पाचक इति असमासोऽयं नसमासस्य पाक्षिकत्वात् पाचक इति नोत्तरपदमिति पूर्वेणापि न भवति । अनुत्तरपदार्थमिति त्याद्यन्तेन 5 समासाऽभावतः समासे च सति पूर्वोत्तरपदव्यवहारात् ।। ३. २. १२६ ।।।
नगोऽप्राणिनि वा ॥ ३. २. १२७ ॥
अप्राणिन्यभिधेये नग इति निपात्यते वा। न गच्छतीति नगःपर्वतः, अगः पर्वतः, नगा वृक्षाः, अगा वृक्षाः । अप्राणिनीति किम् ? अगो वृषलः शीतेन । पूर्वेण नित्यमादेशे प्राप्ते विकल्पोऽयम् ।। १२७ ॥ 10
नरखादयः ॥ ३. २. १२८ ॥
नखादयः शब्दा अकृताकाराद्यादेशा निपात्यन्ते । नास्य खमस्तीति नखः, न भ्राजते इति नभ्राट् क्विबन्तः, न पातीति नपात् शत्रन्तः, त्रिलिङ्गोऽयम्, निपातनात्तु नाभावः, न वेत्तीति नवेदाः, औरणादिकोऽस्, सत्सु साधुः सत्यः, 'साधौ' यः न सत्यः असत्यः, नासत्यः, नासत्यौ, नासत्याः, न15 मुखतीति नमुचिः, औणादिक: किः, नास्य कुलमस्तीति नकुलः । कथं न न भ्राजते किंतु भ्राजत एवेति नभ्राट् ? पृषोदरादित्वादेकस्य नको लोपे भविष्यति, एवं न न पाति नपात्, न न वेत्ति नवेदाः, न न मुञ्चति नमुचिः, न न कुलमस्त्यस्य नकुलः, न न खमस्त्यस्य नखः, न पुमान् न स्त्रीति नपुंसकम्, अत एव निपातनात् स्त्रीपुंसयोः पुंसकादेशः । न क्षीयते न क्षरति वा20 नक्षत्रम्, औणादिके त्रटि, क्षभावे निपात्यते । न कामति न क्रीणाति वा नक्रः, डप्रत्ययो निपातनात्, नास्मिन्नकं दुःखमस्ति नाकः, न विद्यन्ते ग्नाः श्रियः छन्दांसि वास्य नग्नः, न अगः नागः, न विद्यते भागोऽस्य नभागः, नारमञ्चति नाराचः, न प्राप्यत इति नापितः न मोयतेऽसाविति नमेरुः, नाभिनन्दति वधूमिति ननान्दा, नान्तरेण भवति, नान्तरीयकम्, न न चिकेत्ति25 नाचिकेतः, अत एव निपातनात् कित् ज्ञापनार्थो जुहोत्यादौ द्रष्टव्यः अस्माच्च