________________
[पा० २. सू० १२४-१२६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६०५
समि इत्येतावादेशौ भवतः । सहाञ्चति सध्रयङ्, सध्रयञ्चौ, सध्रयञ्चः, सध्रीचः, सध्रीचा, सध्रीची, सध्रीचीनः, समञ्चति-सम्यङ्, सम्यञ्चौ, सम्यञ्चः, समीचः, समीचा, समीची, समीचीनः । सहसम इति किम् ? प्राङ्, प्राञ्चौ । अञ्चावित्येब ? सहयुक्, संयुक्, क्वीत्येव ? सहाञ्चनम्, समञ्चनम् ।। १२३ ॥
5 तिरसस्तिर्यति ॥ ३. २. १२४ ॥
तिरस्शब्दस्याति अकारादावञ्चतौ क्विबन्ते उत्तरपदे परे तिरि इत्ययमादेशो भवति । तिरस्तिरको वा अञ्चति, तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः, तिर्यग्भ्याम्, तिर्यग्भिः, तिर्यग्भ्यः, तिर्यक्षु । अतीति किम् ? तिरश्चः, तिरश्चा, तिरश्ची. तिरश्चीनः ।। १२४ ।।
10 न्या० स०-तिरसस्तियति । शब्दरूपापेक्षया च नपुसकत्वे 'अनतो लुप्' [ १. ४. ५६. ] से: सूत्रत्वाद् वा। तिरि इतीति असंदेहार्थमविभक्तिको निर्देशः । ।। ३. २. १२४ ॥
नात्॥३. २. १२५ ॥
नशब्द उत्तरपदे परेऽकारो भवति । अचौरः पन्थाः, अमक्षिको देशः,15 अमशकं वर्तते, अमक्षिकं वर्तते, अहिंसा, अस्तेयम् अकारः किम् ? पामनपुत्रः । उत्तरपद इति किम् ? न भुङ्क्त ।। १२५ ।।
न्या० स०--नात् । अकारः किमिति । ननु चादिषु निरनुबन्ध एव नत्र पठ्यतां स एव चेहाऽनुक्रियतामिति ? सत्यं, निरनुबन्धपाठे पामनपुत्र इत्यादौ 'नोङ्गादेः' [७. २. २६.] इति विहितस्य 'न' प्रत्ययस्याऽत्र ग्रहणं स्यात्, यतः प्रत्ययाऽप्रत्यययो:20 प्रत्ययस्यैव ग्रहणम् इति न्यायः । ततः सानुबन्धपाठो युक्त एव । न च अनुक्रियमाणेऽप्यनुबन्ध स्त्रणपुत्र इत्यत्र कथ न भवतीति वाच्य। प्रत्ययस्यव ग्रहणम् इति न्यायः । 'प्रत्यय' त्रित्त्वस्य वृद्धौ चरितार्थत्वान्निपातत्रित्त्वस्यानर्थक्यात् तस्यैव ग्रहणमिति ।। ३. २. १२५ ।।
त्यादी क्षेपे ॥ ३. २. १२६ ।। .
25 ... त्याद्यन्ते पदे परतः क्षेपे गम्यमाने नञ् अकारो भवति । अपचसि त्वं जाल्म, अकरोषि त्वं जाल्म | त्यादाविति किम् ? न पाचको जाल्मः ।