________________
६०८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा. २. सू० १३१-१३४.]
रथवदे॥३. २. १३१॥
रथवदयोरुत्तरपदयोः कुशब्दस्य कदादेशो भवति । कुत्सितो रथः कद्रथः, कुत्सितो रथोऽस्य कद्रथः, कुत्सितो वद: कद्वदः, कुत्सितो वदोऽस्य कद्वदः । तत्पुरुष एवेच्छन्त्येके, अन्यत्र कुरथो राजा कुवदो मूर्खः ।। १३१ ।।
तुणे जातौ ॥ ३. २. १३२ ॥
कुशब्दस्य तृणे उत्तरपदे जातावभिधेयायां कदादेशो भवति । कुत्सितं तृणमस्याः कत्तृणा नाम रौहिषाख्या तृणजातिः । जाताविति किम् ? कुत्सितानि तृणानि कुतृणानि ।। १३२ ।।
न्या० स०--तृणे जातौ। कत्तणशब्दो जातिवाची अवयवार्थस्तु वृत्तावऽसन्नेव दर्श्यते कुत्सितं तृणमस्या इत्येवंरूपः । रौहिष इति रोहति अरण्ये 'रुहेवृद्धिश्च'10 ५४८ (उणादि) इति इषग्रत्ययः ।। ३. २. १३२ ॥
कत्त्रिाः ॥ ३. २. १३३ ॥
कुशब्दस्य किंशब्दस्य वा त्रिशब्दे उत्तरपदे कदादेशो निपात्यते । कुत्सितास्त्रयः, के वा त्रयः कत्त्रयः, कुत्सितास्त्रयोऽस्य के वा त्रयोऽस्य कत्त्रिः । किमो नेच्छन्त्यन्ये-किंत्रयः ।। १३३ ।।
15 न्या० स०--कत्रिः। श्रावित्येव सिद्धे कत्रीति करणं किमोऽपि परिग्रहार्थम् । । ३. २. १३३ ।।
काक्षपथोः ॥ ३. २. १३४ ॥
अक्ष पथिन इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशो भवति, अक्षशब्दस्याकारान्तस्य कृतसमासान्तस्य चाविशेषेण ग्रहणम् । कुत्सितोऽक्षः पाश-20 कादिः काक्षः, कुत्सितमक्षमिन्द्रियं काक्षम्, कुत्सितोऽक्षो यस्य काक्षो-रथः, कुत्सितमक्षि अक्षं वाऽस्य काक्षः, कुत्सितः पन्थाः कापथम्, कुत्सितः पन्था अस्मिन् कापथो देशः, साकोऽपि भवति, ककु 'कुत्सितः' अक्षः काक्षः, एवं कापथः । पथिशब्दनिर्देशात्तत्पर्यायेऽव्युत्पन्ने पथशब्दे न भवति-कुत्सितः पथः कुपथः, कुपथं वनम् । अनीषदर्थार्थं वचनम् ।। १३४ ।।।
. . . 25