________________
[पा० २. सू० ६७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५६५
चेहानुवर्तत इति परिमाणार्थस्य न भवति । अन्ये तु गोपहतयोरपीच्छन्ति, पादाभ्यां गच्छतीति-पद्गः, पादाभ्यामुपहतः पदुपहतः, कथं हस्तिपादस्यापत्यं हास्तिपद इत्यत्र अपत्याणि पद्भावः । 'कौपिजलहास्तिपदादण' [६. ३. १७०.] इति निर्देशाद्भविष्यति, पादाभ्यां चरति पदिक इति तु 'पदिकः' [६. ४. १३.] इति निपातनात् ।। ६६ ।।
न्या० स०--हिमहति०। पादसंबन्धिनि ये चेति प्रत्यासत्त्या आवृत्त्या वा पादस्य यो यः प्रत्ययस्तस्मिन् न तु समाससंबन्धिनीत्यर्थः। 'विध्यत्यनन्येन' [७.१.८.] 'दिगादिदहाशाद्यः' [ ६. ३. १२४. ] 'प्राण्यङ्गरथखल' [ ७. १. ३७. ] इत्यादिना पद्याः शर्करा इत्यादिषु त्रिषु उदाहरणेषु यथाक्रम ज्ञातव्यानि । निपातनादिति अयमर्थः यथा 'पाद्यार्थे' [७. १. २३.] इति सूत्रनिपातनात् प्रत्ययोऽनुक्तोऽप्यानीयते तथा10 पद्भावाभावोऽपि निपात्यत इति । समाससंबन्धिनीति अयमर्थः न हि पादशब्दात् केवलादेव यप्रत्ययो विधीयते किंतु पादान्ताद् द्विगोः। ततश्च 'प्रत्ययः प्रकृत्यादे:' [७. ४. ११५.] इति यस्मात् प्रत्ययो विधीयते, तदादेरेव ग्राहको न, तदवयवस्येति नाऽयं पादसंबन्धी य: किन्तु द्विगोरिति न भवति । पणपादमाषाद्य इति अत्र सूत्रे पणमाषसाहचर्यात् पादशब्दः परिमारणार्थ एव गृह्यते न प्राण्यङ्गवचन इति । आज्यादिष्विति 15 यत आज्यादयः क्रियावचनाः । प्राजिशब्दो हि युद्धक्रियावचनः उपहतशब्दश्च हननक्रियावचनः, तत्र च करणभावः प्राण्यङ्गस्यैव, न परिमारणार्थस्य पादशब्दस्य चतुर्भागार्थस्य । अपत्यारणीति अत एव निर्देशाद् 'अत इन्' [६. १. ३१.] इतीचं बाधित्वा 'ङसोऽपत्ये' [६. १. २८.] इत्यण प्रत्ययो भवति ।। ३. २. ६६ ।।
20
ऋचः शसि ॥ ३. २. १७ ॥
ऋचः संबन्धिनः पादस्य शकारादौ शस्प्रत्यये पदित्ययमादेशो भवति । पादं पादं गायत्र्याः शंसति, पच्छां गायत्रीं शंसति, वाक्यगम्यस्य गायत्र्याः पादसंबन्धस्य वृत्तौ निवृत्तत्वात् स्वाभाविकं शंसनक्रियापेक्षं कर्मत्वं भवति, ऋच इति किम् ? पादं पादं कार्षापणस्य ददाति पादशः कार्षापणं ददाति, एवं पादशः श्लोकं व्याचष्टे । शसो द्विःशकारपाठात् विभक्तिशसि न भवति,25 ऋचः पादान् पश्य ।। ६७ ।।
न्या० स०--ऋचः शसि । ऋचः पादो नामेयत्तावच्छिन्नोऽक्षरपिण्ड इति नात्र प्राण्यङ्गार्थस्य पादशब्दस्य संभव इति सामान्येन न ग्रहणम् । वाक्यगम्यस्येति ननु चेह पादं गायत्र्याः शंसतीति गायत्र्याः पादशब्देन संबन्धाद् वाक्यवद्वृत्तावपि षष्ठया