________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ६८ - १०१.]
भाव्यमिति कथं गायत्रीमित्यत्र द्वितीयेत्याशङ्का । शंसनक्रियापेक्षमिति वाक्ये हि पादं पादं गायत्र्याः शंसतीति गायत्र्याः पादशब्देन संबन्धो यः स पच्छ इति वृत्तौ निवर्त्तते । केवलं पच्छ इति शंसनक्रियाविशेषणत्वेनैवाऽवतिष्ठते श्रतस्तत्र षष्ठी न भवति । तदभावेऽपि कथं द्वितीया ? इत्याह-शंसनेत्यादि । ३. २. ९७ ।।
५६६ ]
5
शब्द निष्कघोषमिश्र वा ॥ ३.२.६८ ॥
शब्दादिषूत्तरपदेषु पादस्य पदित्ययमादेशो वा भवति । पादयोः शब्दः पच्छब्दः, पादशब्दः, एवं पन्निष्कः, पादनिष्कः, पद्घोषः पादघोषः पादाभ्यां मिश्र: पन्मिश्रः, पादमिश्रः ।। ६८ ।।
नस्
नासिकायास्त क्ष दे ॥ ३.२. ६६ ॥
नासिकाशब्दस्य तस्प्रत्यये क्षुद्रशब्दे चोत्तरपदे परे नसित्ययमादेशो 10 भवति । नासिकया नासिकायां वा नस्तः, नासिकायां नासिकया वा क्षुद्रः नःक्षुद्रः ।। ६६ ।।
ये वर्णे ।। ३. २. १०० ॥
नासिकाशब्दस्य यप्रत्यये वरर्णादन्यस्मिन्नभिधेये नसत्त्ययमादेशो भवति । नासिकायै हितं तत्र भवं वा नस्यम् य इति किम् ? नासिक्यं 15 नगरम्, चातुरर्थिकोऽयं ञ्यः । निरनुबन्धग्रहणे च न सानुबन्धस्य ग्रहणं भवति । अव इति किम् ? नासिक्यो वर्णः ।। १०० ।।
शिरसः शीर्षन् ॥ ३. २. १०१ ॥
शिरस्शब्दस्य शीर्षन्नित्ययमादेशो भवति ये प्रत्यये परे । शिरसि भवः शीर्षण्यः स्वरः, एवं शीर्षण्यो व्ररणः, शिरसे हितं शीर्षण्यं तैलम् य इत्येव ? 20 शिरस्तः, सशिरस्कः, निरनुबन्धग्रहणे च न सानुबन्धस्य ग्रहणं तेनेहापि न भवति । शिर इच्छति शिरस्यति, तथा हस्तिनः शिर इव शिरो यस्य ( स ) हस्तिशिराः, तस्यापत्यं स्त्री बाह्वादित्वादित्रि ' शीर्षः स्वरे तद्धिते' [३. २. १०३.] इति शिरसः शोर्षादेशे 'अनार्षे वृद्धे' - [ २. ४. ७८.]