________________
५६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ६५-६६.]
न्या० स०-हृदयस्य०। सौहाईमिति । सुष्ठु हृदयं यस्य दुष्टं हृदयं यस्य स ' सुहृदयः, दुहृदयः 'तस्येदम्' [ ६. ३. १६०. ] इत्यण । हृद्भगसिन्धोरुभयपदवृद्धिः । सुहृदयस्य भाव इति वाक्ये 'युवादेरण' [ ७. १. ६७. ] वा। निद्दिश्यमानत्वात् हृदयशब्दस्यैवादेशः। प्रथमवाक्यद्वये 'हृद्यपद्य' इति यः । भवार्थे दिगादित्वात् यः । हितार्थे तु 'प्राण्यङ्ग' [७. १. ३७.] इति यः। सौहार्य मिति 'पतिराजान्त' [७. १. ६०.] 5 इति टयण ।। ३. २. ६४ ॥
पदः पादस्याज्यातिगोपहते ॥ ३. २. ६५ ॥
पादशब्दस्याज्यादिषूत्तरपदेषु पद इत्ययमादेशो भवति । पादाभ्यामजति अतति चेति औरणादिके इणि-पदाजिः, पदातिः, अत एव निर्देशात् अजेर्वी न भवति । पादाभ्यां गच्छति-पदगः, 'नाम्नो गमः'-[५. १. १३१.] इत्यादिना10 डः, पादाभ्यामुपहतः, पदोपहतः,। पादशब्दसमानार्थः पदशब्दोऽस्ति आज्यादिषु तु पादशब्दप्रयोगनिवृत्त्यर्थं वचनम् । कथं दिग्धश्चासौ पादश्च दिग्धपादः, तेनोपहतः दिग्धपादोपहतः-उत्तरपदसंनिधापितेन पूर्वपदेन पादशब्दो विशेष्यते, न चात्र पादशब्दः पूर्वपदमपि तु दिग्धपादः, तेनात्र न भवति ।। ६५ ॥
15 हिमहतिकाषिये पद् ॥ ३. २. ६६ ॥
हिमादिषूत्तरपदेषु पादसंबन्धिनि ये च प्रत्यये पादशब्दस्य पदित्ययमादेशो भवति। पादयोहिम पद्धिमम्, पादाभ्यां हतिः पद्धतिः, पादौ कषतीत्येवंशीलः, पुनः पुनः पादौ कषति, पादाभ्यां साधु कषतीति वा पत्काषी, परमश्चासौ पत्काषी च परमपत्काषी। यदा च परमौ च तौ पादौ20 च परमपादौ तत्कषणशीलादिविवक्ष्यते तदा पादशब्दस्य पूर्वपदत्वाभावात् परमपादकाषीत्येव भवति, पादौ विध्यन्ति पद्याः-शर्कराः, पादयोर्भवाः, पद्याःपांसवः, पादाभ्यां हितं पद्यं-घृतम् । कथं पादार्थमुदकं पाद्यम् ? 'पाद्यार्थ्य' [७. १. २३] इति निपातनात् । पादशब्दसंबन्धिनि य इति किम् ? द्विगु समाससंबन्धिनि माभूत्, द्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यम्, त्रिपाद्यम्, एवं25 त्रिपाद्यम्, अध्यर्धपाद्यम्, 'पणपादमाषाद्यः' [६. ४. १४८.] इति यः । यद्वा ग्राज्यादिषु करणभावः प्राण्यङ्गस्यैवेति पूर्वत्र पादशब्दः प्राण्यङ्गवचनः स एव