________________
५७२ ]
बृहवृत्ति-लघुन्याससंवलिते
_[पा० २. सू० ५४.]
स्त्रियां विशेष्यायां गुणवचनानामाश्रयतो लिङ्गवचनानीति दृढादिभि: स्त्रीलिङ्गर्भाव्यम् ? । सत्यं, दृढादिशब्दोऽत्राऽदाढ्ादिनिवृत्तिपरः प्रयुज्यते। तत्र चादाढर्यादिनिवृत्तिपरायां नोदनायां लिङ्गविशेषोपादानस्यानुपकारित्वाद् भक्त : स्त्रीत्वविवक्षामन्तरेणाऽपि दाढर्यादिमात्रविवक्षयाप्यदाढर्यादिनिवृत्तेः सिद्धत्वात् स्त्रीत्वमत्र न विवक्षितमित्यौत्सर्गिक नपुंसकत्वमेव भवति । कल्याणी भक्तिरित्यादौ तूत्तरपदसमानाधिकरण्याभिव्यक्त्यर्थं 5 पूर्वपदे स्त्रीत्वमुच्यते । विवक्षाद्वयसंभवे हि यथाकामं प्रयोगो भवतीति समाधानार्थः ।। ३. २.५३ ॥
तद्धिताककोपान्त्यपूरण्याख्याः ॥ ३. २. ५४ ।।
तद्धितप्रत्ययस्याकप्रत्ययस्य च यः कः स उपान्त्यो यासां तास्तद्धिताककोपान्त्याः, पूरणीप्रत्ययान्ता, आख्याः संज्ञास्त पाश्च परतः स्त्रियः पुंवन्न 10 भवन्ति । तद्धित-मद्रिकाभार्यः, वृजिकाभार्यः, लाक्षिकीभार्यः लाक्षिकीबृहतिकः, लाक्षिकीदेश्या, रौचनिकीचरी, मद्रिकायते, वृजिकामानिनी । अक:-कारिकाभार्यः,हारिकाभार्यः, विलेपिकायाधर्म्य-वैलेपिकम्, प्रानुलेपिकम्, कारिकाकल्पा, पाचिकारूपा, कारिकायते, पाचिकामानिनी। पूरणीद्वितीयाभार्यः, पञ्चमीभार्यः, द्वितीयाकल्पा, पञ्चमीदेश्या, पञ्चमीयते,15 षष्ठीमानिनी। आख्या-दत्ताभार्यः, गुप्ताभार्यः, दत्तारूपा, गुप्तापाशा, गुप्तामानिनी। कस्य तद्धिताकविशेषणं किम् ? पाकभार्यः, मूकभार्यः, जल्पाकभार्यः, कामुककल्पा। जागरूकरूपा, लुण्टाकायते, कुट्टाकायते, कुट्टाकमानिनी ।। ५४ ।।
न्या० स०--तद्धिता०। तद्धितश्चाकश्च तद्धिताको तद्धिताकयोः कः स20 उपान्त्यो येषां परतः स्त्रीरूपाणां शब्दानामिति कृत्यम् । वृत्त्यभिप्रायेण तु यासामिति कृते ह्रस्वत्वं न स्यात् । अत्र ड्यन्तेभ्यो रूपप्कल्पपौ नोदाह्रियेते, तयोः परत्वात् 'ड्यः' [ ३. २. ६४. ] इत्यनेन ह्रस्वत्वं भवति । एवमुत्तरयोरपि सूत्रयोर्द्रष्टव्यम् । वैलेपिकम् इत्यत्र 'ऋन्नरादे०' [६. ४. ५१. ] एवमग्रतनेऽपि । कारिकाकल्प इति बाधन्ते स्वार्थिकाः क्वचिदित्याप् न । ननु दत्तागुताशब्दौ संज्ञाशब्दत्वात् स्वतः स्त्रीलिङ्गौ25 तत्कथमनेन निषेधः ? सत्यं, एतौ संज्ञायामपि वर्तमानौ दानगोपनक्रियासंबन्धात् सर्वेष्वप्यर्थेषु स्त्रीपुन्नपुसकेषु वर्तते इत्यत्र स्त्रीविवक्षणात् परतः स्त्रीलिङ्गता ।। ३.२.५४ ।।