________________
[पा० २. सू० ५५-५६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७३
तद्धितः स्वरवृदिधहेतुररक्तविकारे ॥ ३. २. ५५ ।।
स्वरस्थानाया वृद्धों हेतुस्तद्धितो रक्ताद्विकाराच्चान्यत्रार्थे विहितस्तदन्तः परतः स्त्रीलिङ्गः पुंवन्न भवति । माथुरीभार्यः स्रोग्घ्नीभार्यः, वैदिशीभार्यः, वैदर्भीभार्यः, सौतंगमीभार्यः कार्तवी-भार्यः माथुरीदेश्या, नादेयीचरी, सौतंगमीयते, वैदर्भीमानिनी, स्रोग्घ्नीमानिनी। तद्धित इति किम् ? 5 कुम्भकारी भार्या अस्य स कुम्भकारभार्यः, एवं काण्डलावभार्यः । वृद्धिहेतुरिति किम् ? अर्धप्रस्थे भवा अर्धप्रस्था,-अर्धप्रस्था भार्या यस्य सः अर्धप्रस्थभार्यः, शोभनतरभार्यः,। मध्यमभार्यः, स्वरेति किम् ? वैयाकरणभार्यः । अन्ये तु वृद्धिमात्रहेतोणितस्तद्धितस्य पुंवत्प्रतिषेधमिच्छन्ति, तन्मते वैयाकरणीभार्यः । अरक्तविकारे इति किम् ? कषायेण रक्ता काषायी सा बृहतिकास्य काषाय-10 बृहतिकः, एवं माञ्जिष्ठबृहतिकः, लोहस्य विकारो लौही सा ईषास्य लौहेषः, एवं खादिरेषः ।। ५५ ।।
न्या० स०--तद्धितः स्वर०। वैदिशोभार्य इति । विदिशायां भवा जाता वा। सौतङ्गमीभार्य इति सुतंगमस्यापत्यं स्त्री ऋष्यण , ततो ङीप्रत्ययः सुतंगमादेरि नानीयते 'देशे नाम्नि' [२.३.७०.] इति भणनात्, यतोऽसौ सौतंगमीति कस्याश्चित् संज्ञा सा15 भार्याऽस्येति । कार्तवीर्योभार्य इति कृतं वीर्यमनेन तस्यापत्यं स्त्री ऋष्यण् । अर्धप्रस्थेति 'अर्द्धात् परिमाणस्य' [ ७. ४. २०. ] इत्यत्राऽकारस्य वृद्धिविधौ वर्जनात् आद्यस्य च वावचनादत्र वृद्ध्यभावः। अन्ये त्विति तेन वैयाकरणीभार्य इत्यत्र स्वरस्थानवृद्ध्यभावेऽपि पुवन्निषेधः, न ह्यत्रकारः स्वरस्थानी। ईषतीति 'नाम्युपान्त्य' [ ५. १. ५४. ] इति के ईषा ।। ३. २. ५५ ॥
20
स्वानान्कीर्जातिश्चामानिनि ॥ ३. २. ५६ ॥
स्वाङ्गाद्यो विहितो ङीस्तदन्तो जातिवाची च यः शब्दः परतः स्त्री स पुंवन्न भवति, अमानिनि मानिन्शब्दश्चेत्परो न भवति । दीर्घकेशीभार्यः, चन्द्रमुखीभार्यः, कलकण्ठीदेश्या, तनुगात्रीचरी, चन्द्रमुखीयते । जातिकठीभार्यः, बह वृचीभार्यः, कठीदेश्या, बह वृचोचरी, शूद्राभार्यः, क्षत्रियाभार्यः,25 शूद्रापाशा, क्षत्रियादेश्या ।