________________
[पा० २. सू० ५३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५७१
न्या० स०--एयेऽग्नायी। आग्नेय इति 'कल्पग्नेरेयण' [ ६. १. १७. ] । श्यनेयेति 'द्विस्वरादनद्याः' रौहिणेयेति 'ड्याप्त्यूङ:' [ ६. १. ७०.] इति एयण । नियमार्थमिति विपरीतनियमस्तु न भवति प्रतिषेधाधिकारेऽग्न्याय्यनेये इत्यकरणात् । अत्रैव वा आग्नेय इत्यनिपातनात् । विपरीतनियमे हि अग्नाय्यै हितः 'तस्मै हिते' [७.१.३५. ] इतीये 'जातिश्च' [३. २.५१.] इत्यनेनाऽपि पूवत् न स्यात् । 5 ततश्चाग्नायीय इति स्यात् । स्थिते त्वऽग्नीय इत्येव भवति ।। ३. २. ५२ ॥
नाप्रियादौ ॥ ३. २. ५३ ॥
पूरण्यप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परे परतः स्त्री पुंवन्न भवति । अप्-कल्याणी पञ्चमी प्रासां कल्याणीपञ्चमा रात्रयः, एवं कल्याणीदशमाः,-पूरण्यबन्तस्य ग्रहणात् इह पुंवद्भावो भवत्येव, बह व्य10 ऋचो यस्य स बह वृचश्चरणः। प्रियादि,-कल्याणी प्रिया अस्य कल्याणीप्रियः, एवं भव्याप्रियः, भव्यामनोज्ञः, प्रियाकल्याणीकः, प्रियासुभगः, कल्याणीदुर्भगः, कल्याणीस्वः, प्रियाक्षान्तः, दर्शनीयाकान्तः, प्रियावामनः, दर्शनीयासमः, प्रियासचिवः, प्रियाचपलः, प्रियाबालः, कल्याणीतनयः, कल्याणीदुहितृकः, कल्याणीभक्तिः, गिरितनया भक्तिरस्य गिरितनयाभक्तिः । 15 कथं दृढभक्तिः स्थिरभक्तिः शोभनभक्तिः परिपूर्णभक्तिरित्यादि ? दृढं भक्तिरस्येत्येवम् अस्त्रीपूर्वपदस्य विवक्षितत्वात् । अप्प्रियादाविति किम् ? कल्याणी पञ्चमी अस्मिन् कल्याणपञ्चमीकः पक्षः, कल्याणप्रमाणी येषां ते कल्याणीप्रमाणाः । प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, स्वा, क्षान्ता, कान्ता, वामना, समा, सचिवा, चपला, बाला, तनया, दुहितु, भक्ति इति प्रियादिः 120 वामेत्यप्यन्ये-प्रियवामः ।। ५३ ।।
न्या० स०--नाप्रिया०। पूरण्यपप्रत्ययान्त इति । प्रियादेः स्वरान्तस्याबन्तस्य उत्तरपदत्वं तत्साहचर्यादप्प्रत्ययोऽपि स्वरान्तादेव विहितो गृह्यते स च पूरणीप्रत्ययान्तादेव संभवति । यद्वा अबिति 'पूरणीभ्यस्तत्प्राधान्येऽप्' [ ७. ३. १३०. ] इति सूत्रश्रुतो गृह्यते नत्वऽधिकारानुमितः। श्रुतानुमितयोः श्रौतस्यैव ग्रहणात्। प्रियाक्षान्त इति25 क्षमते 'पुतपित्त' २०४ (उणादि) इति निपात्यते, क्षान्तिरस्या अस्ति । अभ्रादिभ्योऽप्रत्ययो वा। क्ते तु 'क्ताः' [ ३. १. १५१. ] इति बहुत्वनिर्देशात् प्रिय इति विकल्पं बाधित्वा नित्यमेव प्राक् स्यात्, एवं कान्तोऽपि। गिरितनयाभक्तिरित्यत्र कर्मरिण क्तिः । भज्यते सेव्यतेऽसौ, गिरितनया भक्तिः सेव्या यस्य । अस्त्रीपूर्वपदस्येति ननु चात्र भक्तो