________________
[पा० २. सू० ४६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५६७
परोवरादयोऽपीति आश्चतीति अवाञ्चतीति आङ च अवाङ च 'चवर्गदषहः' [७.३.६८.] अत् आचोवचमिति निपात्यम्, परश्चाऽवरश्च पराङ च प्रवराङ च इति वा परोवरम् ।। ३. २ ४८ ॥
परतः स्त्री पुवत् स्त्र्येकार्थेऽनूङ् ॥ ३. २. ४६ ॥
परतो विशेष्यवशाद्यः शब्दः स्त्रीलिङ्गः स स्त्रियां वर्तमाने एकार्थे 5 तुल्याधिकरणे उत्तरपदे परे पुंवद्भवति 'अनूङ' न चेदुङन्तो भवति । दर्शनीया भार्या यस्य स दर्शनीयभार्यः, एवं पटुभार्यः, कल्याणभार्यः, शोभनभार्यः, प्रसूतभार्यः, प्रजातभार्यः, एनी भार्या यस्य स एतभार्यः, एवं श्येतभार्यः, युवतिर्जायास्य युवजानिः, कल्याणी चासौ पञ्चमी च कल्याणपञ्चमी, पट्वी च मृद्वी च पट्वीमृदयौ, ते भार्ये अस्य पट्वीमृदुभार्यः, अत्र द्वद्वपदानां 10 परस्परार्थसंक्रमात् द्वयर्थस्य मृदुशब्दस्य द्वयर्थेन भार्याशब्देन सामानाधिकरण्यमिति पुंवद्भावः, पूर्वस्य तु व्यवधानान्न भवति । परत इति किम् ? द्रुणीभार्यः, वरटाभार्यः, वडवाभार्यः, अत्र पुंवद्भावे अर्थतः प्रत्यासन्नाः कूर्महंसाश्वशब्दाः प्राप्नुयुः द्रोणीभार्यः, कुटीभार्यः, पात्रीभार्यः,-अत्र पुंवद्भावे शब्दतः प्रत्यासन्ना द्रोणकुटपात्रशब्दाः प्राप्नुयुः ।
15 स्त्रीति किम् ? ग्रामणि कुलं दृष्टिरस्य ग्रामरिणदृष्टिः, खलपुदृष्टिः । स्त्र्येकार्थे इति किम् ? कल्याण्याः वस्त्रम्, कल्याणीवस्त्रम् । स्त्रीग्रहणं किम् ? कल्याणी प्रधानमेषां कल्याणीप्रधानाः, गृहिणीनेत्राः । एकार्थ इति किम् ? कल्याण्याः माता कल्याणीमाता, दर्शनीयामाता। अनूङिति किम् ? ब्रह्मबन्धूभार्यः, करभोरूभार्यः । अनूङिति प्रसज्ज्यप्रतिषेधात् इडविडोऽपत्यं20 स्त्री अञ् तस्य लुप्, इडविड् सा चासौ भार्या च ऐडविडभार्येत्यादिषु उत्तरेण पुंवद्भावः । पर्युदासे हि ऊङ्सदृशप्रत्ययान्तस्यैव पुंवद्भावः स्यादिति ।। ४६ ।।
न्या० स०--परतः स्त्री०। स्त्रियामेकार्थं स्त्री च तत् एकार्थं चेति वा स्त्र्येकार्थं तस्मिन् । अत्र पुंवद्धावे अर्थत इति द्रुणी इत्यादीनां त्रयाणामाविष्टलिङ्गानां25 पुलिङ्ग प्रयोगादर्शनात् किंरूपः पुवद्भावः स्यादित्याशङ्का। ननु द्रुणशब्दस्य वृश्चिकवाचकस्य पुंस्त्वमपि दृश्यते तत्कथं नित्यस्त्रीत्वम् ? सत्यं, न तत् वैयाकरण