________________
५६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ४८.]
शोधने-प्रकर्षेणैत्यागच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकः, चिन्त्यते स्मर्यते इति ।
चित्तम् चितिश्च व्रतम्, प्रायश्चित्तं चिन्तितं किल्बिषविशुद्धये प्रायश्चित्तमतिचारशोधनम् आलोचनप्रतिक्रमणादि, एवं प्रायश्चित्तिः, पक्षे विसर्जनीयपूर्वः शकार इत्यन्ये, प्रायःश्चित्तम्, प्रायःश्चित्तिः, अन्ये तु प्रायणं प्रायः 5 तस्य चित्तं प्रायश्चित्तं प्रायश्चित्तिरित्यपि मन्यन्ते, शष्कुली कृतान्न-शष्कुलशब्दाद्गौरादित्वात् डीः, कृतान्नादन्यत्र शकुली मत्स्यविशेषः, गोष्पदं गोसेविते प्रमाणे च-यत्र गावः पद्यन्ते स गोभिः सेवितो ग्रामसमीपादिर्देश उच्यते, प्रमाणे गोष्पदपूरं वृष्टो देवः, गोष्पदमात्रं क्षेत्रम्-अत्र गोः पदमन्यस्येयत्तां परिच्छेत्तुमुपादीयमानं प्रमाणं भवति, अन्यत्र गोपदम्, अगोष्पदं सेवारहिते, न10 विद्यते गोः पदं येषु तान्यगोष्पदान्यरण्यानि, अगोष्पदेष्वरण्येषु विश्वासमुपजग्मिवान् ननु गोष्पदप्रतिषेधादगोष्पदमिति सिध्यति, सत्यम्, किं तु यत्र गवां प्रसङ्गो न ताभिः सेवितस्तत्रैव स्यात् । यथा यत्र शुक्लगुणप्रसङ्गः स एवाशुक्ल इति भवति, नात्माकाशादि। यत्र तु गवामत्यन्तासंभवस्तत्र न स्यात्, तत्रापि यथा स्यादित्येवमर्थं निपातनम् । न विद्यते गोः पदं यत्रेति15 त्रिपदबहुव्रीहिविवक्षायां रूपान्तरनिवृत्त्यर्थम् च बहुवचनमाकृतिगणार्थम्, तेनावोवचपरोवरादयोऽपि द्रष्टव्याः ।। ४८ ।।
न्या० स०--वर्चस्का०। 'युवर्ण' [५. ३. २८.] इत्यलि अवस्करः । कुत्सिता तुम्बुरुरित्यत्र बाहुलकात् स्त्रीत्वम् । आस्पदमिति प्रापद्यते प्राप्यते सद्भिः वर्षादित्वादल। मस्कर इति 'पन्नाम्नि घः [५.३. १३०.] बाहलकाच्च समासो20 'नाम नाम्ना' [३. १. १८.] इत्यनेन 'पृषोदरा' [३. २. १५५.] इति माङो ह्रस्वः, कु ईषत् तीरं कास्तीरं 'अल्पे' [३. २. १३६.] कादेश: । कारस्करोऽयं टप्रत्ययेऽचि वा किष्किन्धाशब्दोऽप्रत्यये । 'शीरीभूदूमूघृपाधाग्' २२१ (उणादि) इत्यादिना औरणादिके क्त वा चित्तम् । अपरत्र 'श्रवादिभ्यः' [५. ३. ६२.] इति तौ, अन्ये तु प्रायणं प्राय इति कोऽर्थः ? परलोकगमनं भोजनत्यागो वा प्रायः। तस्य चित्तं प्रायचित्तं । गवां पदं25 गोष्पदं तस्य पूरणं 'वृष्टिमाने' [ ५. ४. ५७. ] इति णम् । गोष्पदमात्रमिति गोष्पदं मानमस्य स्यात् 'द्विगोः संशये च' [ ७. १. १४४. ] इत्यऽधिकारे 'मात्रट' [७. १. १५५.1 इति मात्रट् । रूपान्तरनिवृत्यर्थमिति अगोपदमिति रूपस्येत्यर्थः । गृह्णातीति वा 'ज्वलादिदुनी' इति ग्राहः। मस्करीति णिन्यारादेशे उभयत्रापि ह्रस्वः। प्राचोवच