________________
५६८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ५०.]
सम्मतं अपि त्वभिधानकाराणामेव । शब्दतः प्रत्यासन्ना इति न त्वर्थत इत्यर्थः । ननु । कुटपात्रशब्दावन्यलिङ्गावपि स्तस्तत् कथमाविष्टलिङ्गत्वम् ? सत्यं, कुटशब्दो गेहे पात्रशब्दस्तु भाजने वर्तमानः स्त्रीलिङ्ग एव कैश्चिदुक्तस्तदभिप्रायाश्रयणेनेदमुच्यते । अनङिति किमिति । नन्वनूङिति निषेधोऽत्र सूत्रे किमुच्यते 'नाप्रियादौ' [३. २. ५३.] इत्यादौ प्रक्रमायाते प्रतिषेधाधिकारे एव तु युक्तः ? सत्यं, यद्यत्रैतं न कुर्यात् किंतु 5 निषेधाधिकारे ऊङिति सूत्रान्तरं विदध्यात् ततो यथा नाप्रियादीनां निषेधानां 'पुवत् कर्मधारये' [ ३. २. ५७.] इति प्रतिप्रसव उक्तस्तथाऽस्यापि स बाधक: स्यात् स मा भूदित्येवमर्थम् । उत्तरेण पुंवद्भाव इति । 'पुवत् कर्मधारये' [ ३. २. ५७. ] इत्यनेनेत्यर्थो न त्वनेन 'स्वाङ्गाद् ङीर्जातिश्च' [ ३. २. ५६. ] इति निषेधात् ।। ३. २. ४६ ।।
क्य मानिपित्तद्धिते ॥ ३. २. ५० ॥
10 क्यङि प्रत्यये मानिनि शब्दे चोत्तरपदे पिति तद्धिते च प्रत्यये परे परतः स्त्रीलिङ्गशब्दोऽनङ् पुंवद्भवति। क्यङ्-श्येनीवाचरति श्येतायते, मानिन्दर्शनीयां मन्यते दर्शनीयमानी अयमस्याः, दर्शनीयमानिनीयमस्याः, मानिन्ग्रहणमस्त्युत्तरपदार्थम् असमानाधिकरणार्थं च, दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति तु सामानाधिकरण्ये पूर्वेणैव भवति, पित्तद्धित थ्यप्-अजाय15 हितम् अजथ्यं यूथम्, पित्तिथट् बह्वीनां पूरणी बहुतिथी, पचरट्-भूतपूर्वा पट्वी पटुचरी, पित्तस्-बह्वीभ्यो बहुतः, त्रप-बह्वीषु बहुत्र। प्रशस्बह्वीभ्यो देहि-बहुशो देहि, अल्पाभ्यो देहि अल्पशो देहि, पाशप-निन्द्या दर्शनीया दर्शनीयपाशा, तमप्-इयमासामतिशयेन पक्वा पक्वतमा, तरप्इयमनयोरतिशयेन पक्वा, पक्वतरा, रूपप् प्रशस्ता दर्शनीया दर्शनीयरूपा,20 कल्पप्-ईषदसमाप्ता दर्शनीया-दर्शनीयकल्पा, देश्यप्-एवं दर्शनीयदेश्या, कप्ह्रस्वा दर्शनीया दर्शनीयका, कुत्सिता दरद्-दारदिका, कथं पट्विका ? मृद्विका ? 'ड्यादीदूतः के' [२. ४. १०३. ] इत्यत्र डीग्रहणं पुंवद्भावबाधनार्थमित्युक्तम्, तेनात्र ह्रस्वो भवति । पिद्ग्रहणं किम् ? पट्वीरूप्यम्, पवीमयम्, तन्वीं तन्वी खनति तन्वीशः खनति, ‘संख्यैकार्था-25 द्वीप्सायां शस्' [७. २. १५७.] इति शस् । तद्धित इति किम् ? पट्वीषु, बह्वीषु, कुमारीवाचरति क्विप्-कुमारयति, कुमारीयतेः क्विप् कुमारी बाह्मणः । पञ्चभिर्गाभिः गाायणीभिर्वा क्रीतः-पञ्चगर्गः, दशगर्गः,