________________
२६ ]
बृहद्वृत्ति-लवुन्याससंवलिते
. [पा० १. सू० ३०.]
संबन्ध्येव स्यादिरिति भवत्येव । अन्वर्थसंज्ञा चेयम्-'अव्ययम्' इति [तेन] । लिङ्ग-कारक-विभक्तिनानात्वेऽपि न नानारूपतां प्रतिपद्यत इति, यदुक्तम्--
"सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्" ॥5॥ अन्वर्थाश्रयणे च स्वराद्यव्ययमव्ययं [स्वरादि अव्ययम्-अव्ययं] 5 भवतीति स्वरादेविशेषणत्वेन तदन्तविज्ञानात् परमोच्चैः परमनीचैरित्यादावप्यव्ययसंज्ञा भवति । स्वर्, अन्तर्, सनुतर्, पुनर्, प्रातर्, सायम्, नक्तम्, अस्तम्, दिवा, दोषा, ह्यस्, श्वस्, कम्, शम्, योस्, मयस्, विहायसा, रोदसी, प्रोम्, भूस्, भुवस्, स्वस्ति, समया, निकषा, अन्तरा, पुरा, बहिस्, अवस्, अधस्, असाम्प्रतम्, अद्धा, ऋतम्, सत्यम्, इद्धा, मुधा, मृषा, वृथा, वृषा,10 मिथ्या, मिथो, मिथु, मिथस्, मिथुस्, मिथुनम्, अनिशम्, मुहुस्, अभीक्ष्णम्, मक्षु, झटिति, उच्चैस्, नीचैस्, शनैस्, अवश्यम्, सामि, साचि, विष्वक्, अन्वक्, ताजक्, द्राक्, स्राक्, ऋधक्, पृथक्, धिक्, हिरुक्, ज्योक्, मनाक्, ईषत्, जोषम्, ज्योषम्, तूष्णीम्, कामम्, निकामम्, प्रकामम्, अरम्, वरम्, परम्, चिरम्, पारात्, तिरस्, मनस्, नमस्, भूयस्, प्रायस्, प्रबाहु, प्रबाहुक्,15 प्रबाहुकम्, आर्य, हलम्, आर्यहलम्, स्वयम्, अलम्, कु, बलवत्, अतीव, सुष्ठु, दुष्ठु, ऋते, सपदि, साक्षात्, सन्, प्रशान्, सनात्, सनत्, सना, नाना, विना, क्षमा, शु, सहसा, युगपत्, उपांशु, पुरतस्, पुरस्, पुरस्तात्, शश्वत्, कुवित् (द्), आविस्, प्रादुस्, इति स्वरादयः । बहुवचनमाकृतिगणार्थम्, तेनान्येषामपि चादिषूपात्तानामनुपात्तानां च स्वरादिसधर्मणामव्ययसंज्ञा भवति । स्वरादयो20 हि स्वार्थस्य वाचका न तु चादिवद् द्योतका इति । अव्ययप्रदेशाः"अव्ययस्य" [३. २. ७.] इत्यादयः ।। ३० ।।
__न्या० स०-स्वरे०-प्रत्युच्चसाविति-ननु पूर्वपदमप्यत्राव्ययम्, ततस्तत्संबन्धित्वाल्लुप् प्राप्नोतीति, सत्यम्-अतिक्रान्तेऽर्थे लिङ्ग-संख्यायोगादतिशब्दः सत्त्वे वर्तते इति नाव्ययम् । "अतिरतिक्रमे च" [३. १. ४५.] इत्यत्र बाहुलकात् क्वचित् समासाभावेऽति 25 स्तुत्वेत्यादौ क्रियासंबद्धस्यातिशब्दस्य द्योतकत्वमेवेति । परमनीचैरित्यत्र त्वित्यादि-अत्र तुशब्दो विशेषणार्थः, पूर्वस्माद् विशेषं द्योतयति, तेन किं सिद्धम् ? यत्रानुपसर्जनः स्वराद्यन्तो भवति तत्रावयवः समुदायश्चोभयमप्यव्ययं भवत्येव, समासस्योत्तरपदार्थप्रधानत्वात् । '