________________
५५२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० २. सू. १५-१८.]
मनसश्चाज्ञायिनि ॥३. २. १५ ॥
मनःशब्दादात्मशब्दाच्च परस्य टावचनस्याज्ञायिन्युत्तरपदे परे लुप् न भवति । मनसाज्ञातुं शोलमस्य मनसाज्ञायी, एवमात्मनाशायी । आत्मनो नेच्छन्त्येके ॥ १५ ॥
न्या० स०--मनसश्चा०। नन्विदं सूत्रमलुविधायकं न कर्त्तव्यं, यतो लुकि 5 कृतेऽपि सर्वाणि रूपाणि भविष्यन्ति ? उच्यते, यदि लुप् विधीयते तदा पदान्तत्वान्नलोपो रुत्वं विसर्गादिकं च कार्यं स्यादिति सूत्रम् ।। ३. २. १५ ॥
नाम्नि ॥ ३. २. १६ ।।
मनसः परस्य टावचनस्योत्तरपदे परे नाम्नि संज्ञायां विषये लुप् न भवति । मनसादेवी, मनसागुप्ता, मनसादत्ता, मनसासंगता,-एवं नामा10 काचित् । नाम्नीति किम् ? मनोदत्ता कन्या ।। १६ ।।
___ न्या० स०-नाम्नि। मनसा दीव्यादित्याशास्यमाना लिहादित्वात् 'तिक्कृतौ नाम्नि' [ ५. १. ७१. ] इत्यच्, गौरादित्वात् ङ्यां 'कारकं कृता' [ ३. १. ६८. ] इति सः ।। ३. २. १६ ।।
परात्मभ्यां हो ॥३. २. १७ ॥
परात्मशब्दाभ्यां परस्य अॅश्चतुर्थ्येकवचनस्योत्तरपदे परे नाम्नि विषये लुप् न भवति । परस्मैपदम्, परस्मैभाषा, आत्मनेपदम्, आत्मनेभाषा,'तादर्थ्य' [२. २. ५४.] चतुर्थी, हितादित्वात् समासः । नाम्नीत्येव ? परहितम्, अात्महितम् । कथं परहितो नाम कश्चित् ? नेयमनादिसंज्ञा ॥ १७ ॥
अव्यञ्जनात्सप्तम्या बहुलम् ॥ ३. २. १८ ॥ 20
अकारान्ताद्वयञ्जनान्ताच्च परस्याः सप्तम्या बहुलं लप् न भवति, नाम्नि विषये। अदन्तः-अरण्येतिलकाः, अरण्येमाषकाः, वनेकशेरुकाः, वनेबल्वजाः, वनेकिंशुलकाः, वनेहरिद्रकाः, कूपेपिशाचिकाः, पूर्वाह णेस्फोटकाः, मध्याह्न स्फोटकाः,व्यञ्जन-युधिष्ठिरः-बहुलवचनात्क्वचिद्विकल्पः-त्वचिसारः, त्वक्सारः, क्वचिद्भवति-जलकुक्कुटः, ग्रामसूकरः। अद्व्यञ्जनादिति25
15