________________
[पा० २. सू० १३-१४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५५१
तपनमण्डलदीपितमेकतः, सततनशतमोवृतमन्यतः ।
हसितभिन्नतमिस्रचयं पुरः, शिवमिवानुगतं गजचर्मणा ॥ १।। सततनैशतमोवतमिति निशायां भवं 'निशाप्रदोषात्' [ ६. ३.८३. ] इतीकणो विकल्पाद् भवेऽण । नैशं च तत् तमश्च सततं च तन्नैशतमश्च तेन वृतमिति ॥३.२.१२॥
पुजनुषोऽनुजान्धे ॥ ३. २. १३ ॥
पुम्स्शब्दाज्जनुःशब्दाच्च परस्य टावचनस्य यथासंख्यमनुजशब्देऽन्धशब्दे चोत्तरपदे परे लुब् न भवति । पुंसा करणेनानुजः पुंसानुजः, जनुषा जन्मनान्धः-जनुषान्धः,-अविकृताक्षो जात्यन्ध उच्यते । अन्ये तु जतुः शब्दात्तकारश्रुतेरिच्छन्ति । ट इत्येव ? पुमासमनुजाता पुमनुजा ।। १३ ।।
न्या० स०-पुजनुषो० । अन्धेश्चुरादिणिजन्तादच्यन्धः अन्धनं वाऽन्धस्तदऽस्ति 10 अभ्रादित्वात्, उभयोः करणे तृतीया 'कारकं कृता' [ ३. १. ६८. ] इति समासः ॥ ३. २. १३ ॥
आत्मनः पूरणे ॥ ३. २. १४ ॥
आत्मनः परस्य टावचनस्य पूरणप्रत्ययान्ते उत्तरपदे परे लुप् न भवति । आत्मनाद्वितीयः, आत्मनातृतीयः, आत्मनाचतुर्थः, आत्मनापञ्चमः,15 आत्मनाषष्ठः, प्रात्मनैकादशः, पूर्वादित्वात्समासः । कथं जनार्दनस्त्वात्मचतुर्थ एवेति ? आत्मा चतुर्थोऽस्येति बहुव्रीहिः ।। १४ ।।
न्या० स०--प्रात्मनः। अत्र पूरणार्थाभिधायक: प्रत्ययः पूरणशब्देनोच्यत इत्याह पूरणप्रत्ययान्ते इति । आत्मनाद्वितीय इति अथात्र केन तृतीया न ह्यत्र करणादिस्तृतीयाऽर्थोऽस्ति, करणादेः कारकत्वात् क्रियामन्तरेण च तस्याऽसंभवात् । न चाऽत्र20 काचित् क्रियास्ति? उच्यते, 'यद्भ दैः' [२. २. ४६. ] इत्यत्र तृतीया। समासस्तु पूर्खादित्वात् । गम्यक्रियापेक्षया करणे वा तृतीयाऽस्तु तदा बाहुलकात् समासः। बहुव्रीहिरिति ननु वत्तिपदार्थव्यतिरिक्त नाऽन्यपदार्थेन भाव्यं चित्रग्वादिवत् अत्र तु तस्यैवान्यपदार्थत्वात् कथं बहुव्रीहिः ? उच्यते, एकस्यैव वस्तुनो बुद्धिपरिकल्पितभेदस्य वत्तिपदार्थत्वमन्यपदार्थत्वं च न विरुध्यते । यथा शोभनशरीरः शिलापुत्रक इति25 ॥ ३. २. १४ ॥