________________
५५० ]
[ पा० २. सू० ११-१२.]
न्या० स०—असत्त्वे० । स्तोकान्मुक्त इत्यादौ ' स्तोकाल्पकृच्छ्र' [ २. २. ७६. ] इति पञ्चमी । अन्तिकादागत इत्यादौ तु 'असत्त्वारादर्थ' [ २. २. १२०. ] इति पञ्चमी भवति इत्यादि स्वयमूह्यम् ।। ३. २. १० ।
ब्राह्मणाच्छंसी ॥ ३. २. ११ ॥
ब्राह्मणाच्छंसीत्यत्र ङसेर्लुबभावो निपात्यते । शंसति ब्राह्मणाच्छंसी, ब्राह्मणाच्छंसिनौ, रूढिवशादृत्विग्विशेष उच्यते । उपात्तविषयमेव तदपादानं निपातनस्येष्टविषयत्वादृत्विग्विशेषादन्यत्र
लुप्
बृहद्वृत्ति - लघुम्याससंवलिते
ब्राह्मणाद्ग्रन्थादादाय 5 ब्राह्मणाच्छंसिनः,यथा- कुसूलात्पचति । भवति - ब्राह्मणशंसिनी
स्त्री ।। ११ ।।
न्या० स०--ब्राह्मणा० । ब्राह्मरणाद्ग्रन्थात् इति ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणं 10 तेन प्रोक् । 'अणि' [ ७.४.५२. ] इति निषेधेऽपि 'ब्रह्मण:' [ ७. ४. ५७.] इत्यनेन ब्राह्ममस्त्रमितिवदत्रान्त्यस्वरादिलोपो न भवति । ‘वेदेन्ब्राह्मणमत्रैव’ [ ६. २. १३०. ] इति निर्देशात्, अत एव निर्देशाद् वा । ब्राह्मणः श्रुताविति नपुंसकत्वं, ब्राह्मणाद्ग्रन्थादादाय शंसतीत्येवं ब्रह्म शंस् इति वाक्ये 'व्रताभीक्ष्ण्ये' [ ५.१.१५७. ] इति णिन् प्रत्ययः । उपात्तविषयेति प्रत्र हि प्रादानाङ्ग शंसने शंसिर्वर्तते इत्यादान - 15 क्रियापेक्षमपादानमित्यादि: ।। ३२.११ ।।
ओजोञ्जसहोम्भस्तमस्तपसष्टः ।। ३. २. १२ ।।
एभ्यः परस्य टस्तृतीयैकवचनस्योत्तरपदे परे लुब् न भवति । ओजसाकृतम्, अञ्जसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम्, तपसाप्राप्तम् । कथं 'सततनैशतमोवृतमन्यत इति ? उत्तरपदस्य 20 संबन्धिशब्दत्वाद्यत्र पूर्वपदीभूतस्तमः शब्दस्तत्रायं निषेधः । यत्र तु पदान्तरेण समस्तस्तत्र न प्रतिषेधः । ट इति किम् ? प्रोजसो भावः प्रोजोभावः ।
तमसो नेच्छन्त्येके । तपसोऽन्ये ।। १२ ॥
न्या० स० – नोजोऽञ्जः । श्रोजसाकृतमिति प्रोजसा क्रियते स्म, एषु सर्वेषु कर्त्तरि षष्ठी न भवति । 'क्तयोरसदाधारे' [ २. २. ९१ ] इति निषेधात्, तृतीया तु25 कर्त्तरि करणे वा, सर्व्वत्र 'कारकं कृता' [ ३.१.६८ ] इति समासः ।