________________
[ पा० २. सू० १०. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५४६
खित्प्रत्ययान्ते उत्तरपदे परे लुप् न भवति । स्त्रीं स्त्रियं वात्मानं मन्यते स्त्रींमन्यः स्त्रियंमन्यः, श्रियंमन्यः, भ्र वंमन्यः, नरंमन्यः, रायंमन्यः, गांमन्यः, नावंमन्यः । अथ श्रियमात्मानं मन्यते श्रियंमन्यं कुलमित्यत्र नपुंसकलक्षणोऽमो लोपः कस्मान्न भवति ? उच्यते- श्रीशब्दस्यात्मसमानाधिकरणस्य नपुंसके वृत्त्यभावादाविष्टलिङ्गत्वाच्च न भवति, अन्ये त्वाहुः, यथा प्रष्ठादयः शब्दा 5 धवयोगात् स्त्रियां वर्तमानाः स्वलिङ्ग विहाय स्त्रीलिङ्गमुपाददते, तथा श्रीशब्दः कुले वर्तमानः स्वलिङ्गपरित्यागेन वर्तते, ततो नपुंसकलक्षणं ह्रस्वत्वममो लुप् च भवति, श्रियंमन्यं कुलमिति । नचायं नपुंसकलक्षणस्य लोपस्यापवादः, किंतु ऐकार्थ्यलक्षणस्योत्तरपदग्रहणात् । नामिग्रहणं किम् ? जंमन्यः, क्ष्मंमन्यः, वाग्मन्यः । एकस्वरादिति किम् ? हररिंणमन्या, 10 बुधमन्या । खितीति किम् ? स्त्रीमानी 'मन्याण्णिन् ' [ ५. १. ११६. ] । ॥
न्या० स०--न नाम्ये० । नाम्यन्तादिति व्याख्याने नाम्यवयवयोगात् समुदायोऽपि नामी । स तु अवयवोऽन्तर्मध्ये च संभवतीति । ततः संभवे व्यभिचारे च *विशेषरणमर्थवत् इति न्यायात्, 'विशेषणमन्तः ' [ ७. ४. ११३. ] इत्यन्तत्वम् । खित्प्रत्ययान्त इति नन्वत्र 'सप्तम्या आदि:' [ ७. ४. ११४.] इति खिदादावुत्तरपदे इति 15 प्राप्नोति ? न, खिदादेरुत्तरपदस्यासंभवादिति । ननु 'स्त्रियंमन्य' इत्यत्राऽलुपि सत्यां 'कर्म्मणि कृत:' [ २.२.८३.] इति सूत्रेण षष्ठी कथं न भवति यतोऽग्रे कृत्प्रत्ययोऽस्ति ? उच्यते, त एवामोऽलुब्विधानात् षष्ठी न भवति । अन्यथा ह्यमोऽलुप् कथं विधीयत इति । न चायमिति नन्वनेन निषेधः प्राप्नोति तत्कथममोऽलुबित्युक्तमन्यैरित्याशङ्का । ऐकार्थ्यलक्षणस्येति अयमपवाद उत्तरपदे एव प्राप्तस्य बाधक इत्यर्थः ।। ३. २. ε ।।
20
असत्त्वे इसेः ॥ ३.२.१० ॥
असत्त्वे विहितो यो ङसि तस्योत्तरपदे परे लुप् न भवति । स्तोकान्मुक्तः, अल्पान्मुक्तः, कृच्छ्रान्मुक्तः, कतिपयान्मुक्तः, अन्तिकादागतः, अभ्याशादागतः सविधादागतः दूरादागतः, विदूरादागतः विप्रकृष्टादागतः, 'क्त' नासत्त्वे' [ ३. १७४ ] इति समासः । सत्त्वे इति किम् ? 25 स्तोकभयम् स्तोकापेतः । उत्तरपद इत्येव ? स्तोकः ।। १० ।
निष्क्रान्तः - स्तोकान्नि