________________
[पा० २. सू० १६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५५३
किम् ? भूमिपाशः नदीकुक्कुटिका । नाम्नीत्येव ? तीर्थकाकः, नगरवायसः, अक्षशौण्डः। सप्तम्या इति किम् ? गौरखरः । कथं गविष्ठिरः ? बिदादिपाठात् 'गवियुधेः स्थिरस्य' [२. ३. २५.] इति निर्देशाद्वा भविष्यति । नन्वन्तरङ्गत्वादवादेशे कृते व्यञ्जनान्तत्वादेव सिद्धं किं बिदादिपाठाश्रयणेन ? नैवम्, अन्तरङ्गानपि हि विधीन् बहिरङ्गाऽपि लुप् बाधते इत्युक्तम्, अन्यथा 5 नदीकुक्कुटिकादिष्वप्यन्तरङ्गत्वाद्यत्वे सत्यलुप् प्रसज्ज्यतेति ॥ १८ ।।
न्या० स०--अव्यञ्जनादिति । किं भूमिपाश इत्यादि दर्शितं । ततश्च भूमौ पाश: भूमिपाश इत्यत्र स्वयमेव न भविष्यति अलुप् यत: संज्ञाशब्दोऽपि न भवति ? उच्यते, क्वचित्साध्यमाना क्वचिदसाध्यमाना च भवति संज्ञा ततश्चाऽत्र साध्यमानास्ति इति अव्यञ्जनादिति व्यावृत्तिः । वनेकिंशुलका इति दर्शितं ततश्च किं श्यतीति अध्वर्वा-10 दित्वाइ डिदुप्रत्यये किंशुः, लातीति डे किंशुलः, स एव किंशुलकः ।। ३. २. १८ ।।
प्राक्कारस्य व्यञ्जने ॥ ३. २. १६ ॥
राजलभ्यो रक्षानिर्वेशः कारः, प्राचां देशे यः कारस्तस्य नाम्नि संज्ञायां गम्यमानायामद्वयञ्जनात्परस्याः सप्तम्या व्यञ्जनादावुत्तरपदे परे लुप् न भवति । मुकुटे मुकुटे कार्षापणो दातव्यः मुकुटेकार्षापरणः, एवं स्तूपेशाणः,15 हलेद्विपदिका, हलेत्रिपदिका, व्यञ्जन-दृषदिमाषकः, समिधिमाषकः,-वृत्तौ वीप्साया दानस्य चान्तर्भावः । प्रागिति किम् ? यूथे यूथे देयः पशु:यूथपशुः, एवं यूथवृषः,-उदीचां देशे कारोऽयम् न प्राचाम् । कार इति किम् ? अभ्यहितेऽभ्यहिते देयः पशुः अभ्यर्हितपशुः,-प्राचां देशे कारादन्यस्य देयस्य नामैतत् । व्यञ्जन इति किम् ? अविकटेऽविकटे उरणो दातव्यः-20 अविकटोरणः, अविकटोऽविसमूहः। अद्वयञ्जनादित्येव ? नध्रयां नध्रयां दोहो दातव्यः नध्रीदोहः । पूर्वेणैव सिद्ध नियमार्थोऽयं योगः, त्रिविधश्चात्र नियमः,-प्राचामेव, कारस्यैव नाम्नि, व्यञ्जनादावेवेति,-तथा च प्रत्युदाहृतम् ॥ १६ ।।
न्या० स०--प्राक्कार०। कुर्वन्त्यनेनेति करः, 'पुन्नाम्नि घः' [ ५. ३. १३०. ] 25 अः इति वा, ततः प्रज्ञाद्यण-कारः। मुकुटेकार्षापरणादिषु सर्वेषु 'नाम्नि' [३. २. १४४.] इति सः । स्तूपो राशिः, शांणः कर्षचतुर्भागः, हले हले द्वौ द्वौ पादौ ददाति । 'संख्यादेः