________________
५४६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० २-४.]
इत्याह-इमे परस्परादय इत्यादि कर्मव्यतिहारः क्रियाव्यतिहार एकस्यान्यतरभोजनादिरूपः । स विषयो येषामिति विग्रहः, पर अन्य इतर इति सर्वादिपाठात् सर्वादिकार्याविरोधः, यद्येवं कथं द्विवचनादि कार्यमित्याह । अस्मादेवेत्यादि नपुसके द्वितीयैकवचनस्य अन्योऽन्याम् अन्योन्यमित्यादेशद्वयसद्भावे आदेशाभावे तु अन्योन्यमिति भवति ।। ३. २. १. ।।
अमव्ययीभावस्यातोपञ्चम्याः॥ ३. २. २ ॥
अव्ययीभावसमासस्याकारान्तस्य संबन्धिनः स्यादेरमित्ययमादेशो भवति 'अपञ्चम्याः' पञ्चमी च वर्जयित्वा । उपकुम्भं तिष्ठति, उपकुम्भं पश्य, उपकम्भं देहि, उपकुम्भं स्वामी। अव्ययीभावस्येति किम् ? कष्टश्रितः । तत्संबन्धिनः स्यादेरिति किम् ? प्रियोपकुम्भस्तिष्ठति, प्रियोपकुम्भाय देहि ।10 अत इति किम् ? अधिस्त्रि, उपवधु, उपकर्तृ । अपञ्चम्या इति किम् ? उपकुम्भात् ।। २ ॥
___ न्या० स०--अमव्ययीभा० । नन्वत्राद्ग्रहणं किमर्थं यतः 'अनतो लुप्' [३.२.६.] इति सूत्रेण यत्राकारान्तत्वं तत्र लूबभावात अनेनाम् भविष्यतीति? सत्यं, अत्राद्ग्रहणं विना 'अनतः' [ ३. २. ६. ] इत्यत्र पर्यु दासो नञ् स्यात्ततश्च अतः स्वरस्य वर्जनमित्यन्य-15 स्मादपि स्वरान्तात् लुप् स्यात्ततो यत्र व्यञ्जनान्तत्वं स्यात् तत्राप्यमव्ययीभावस्यापञ्चम्या इति कृतेऽमादेशः स्यादिति अत्ग्रहणमिति । 'म' विधानेनैव सिद्धे 'अम्' विधानं संबोधने हे उपकुम्भ इत्यादौ 'अदेतः स्यमोः' [ १. ४. ४४.] इति अम्लोपार्थं उपजरसमिति जरसादेशार्थं च ॥ ३. २. २ ॥ वा तृतीयायाः॥ ३. २. ३ ॥
20 अकारान्तस्याव्ययीभावस्य संबन्धिन्यास्तृतीयायाः स्थाने वा अम् भवति । कि त उपकुम्भम्, किं त उपकुम्भेन । तत्संबन्धिन्यास्तृतीयाया इति किम् ? किं नः प्रियोपकुम्भेन ।। ३ ।।
सप्तम्या वा ॥३. २. ४ ॥
अकारान्तस्याव्ययीभावस्य संबन्धिन्याः सप्तम्या अमादेशो भवति वा ।25 उपकुम्भं निधेहि, उपकुम्भे निधेहि। तत्संबन्धिन्याः सप्तम्या इति किम् ? प्रियोपकुम्भे निधेहि । योगविभाग उत्तरार्थः ॥ ४ ॥